________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૮ ॥ अथ श्रीचन्द्रप्रजजिनचैत्यवंदन ।।
(वंशस्थछन्द ।) अनन्तकान्तिपकरेण चारुणा,कलाधिपेनाश्रितमात्मसान्यतः। जिनेन्द्र चन्द्रप्रभदेवमुत्तमं, भवन्तमेवात्महितं विभावये ॥ १॥ उदारचारित्रनिघे जगत्प्रभो, तवाननाम्भोजविलोक नेन मे । व्यथा समस्तास्तमितोदितं मुखं, यथा तमिस्रा दिनमर्क तेजसा ॥ २ ॥ सदैव संसेवनतत्परे जने, भवन्ति सर्वेऽपि सुराः सुदृष्टयः । समग्र लोके समचित्रवृत्तिना, त्वयैव संजोतमतो नमोऽस्तु ते ॥ ३ ॥
- - ॥ अथ श्रीसुविधिजिनचैत्यवंदन ॥
॥ वसन्ततिलका छन्द ॥ विश्वाभिवन्ध मकरांकितपादपद्म, सुग्रीवजात जिनपुंघर शान्तिसम । भव्यात्मतारणपरोत्तमयानपात्र, मां तारयस्त भववारिनिधेविरुपात ॥ १ ॥ निःशेषदोषविगमोद्भवमोक्षमार्ग भव्याः श्रयन्ति भवदाश्रयतो मुनीन्द्र । संसेवित सुरमणिबहुधा जनानां किं नाम नो भवति कामितसिदिकारी ॥ २ ॥ विज्ञं कृपारसनिधि मुविधे स्वयंभूर्मत्वा भवन्तमिति विज्ञपयामी तावत् । देवाधिदेव तव दर्शनवल्लभोऽई, अश्वद्भवामि भुवनेत्र तथा विधेही ॥३॥
For Private And Personal Use Only