________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१७
॥ अथ श्रोपद्मप्रनजिनचैत्यवंदन ॥
॥ भुजंघप्रयातं छन्दः ॥ ॥ उदारप्रभामण्डलैर्भासमानः, कृतात्यन्तदुर्दान्तदोषापमानः । सुसीमांगजः श्रीपतिर्देवदेवः, सदा मे मुदाभ्यर्चनीयस्त्वमेव ॥ १ ॥ यदीयं मनः पंकजं नित्यमेव त्वयालकृतं ध्येयरुपेण देव । प्रधानस्वरुपं तमेवातिपुण्यं, जगन्नाथ जानामि लोके सुधन्यम् ।। ॥ २ ॥ अतोऽधीश पद्मपभानन्दधाम, स्मरामि प्रकामं तवैवांग नाम । मनोवान्छितार्थप्रदं योगिगम्यं, यथा चक्रवाको रवेर्धाम् रम्यम् ॥३॥
॥ अथ श्रीसुपार्श्वजिनचैत्यवंदन ॥
॥ तोटक छन्दः॥ जयवन्तमनन्तगुणैनिभृतं, पृथिवीसुतभद्भुतरुपभृतम् । निजवीर्यविनिर्जितकर्मबलं, मुरकोटिसमाश्रितपकमलम् ॥१॥ निरुपाधिकानिमलसौख्यनिधि, परिवर्जितविश्वदुरन्तविधिम् । भववारिनिधेः परपारमितं, परमोज्वलचेतनयोन्मिलितम् ॥ २॥ कळधौतमुवर्णशरीरधरं, शुभपार्थमुपार्थनिनपवरम् । विनयावनसः प्रणमामि सदा, हृदयोद्भवभूरितरसमुदा ॥ ३ ॥
For Private And Personal Use Only