________________
नैषामत्कर्षः कश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थ चैषां विशेषणकदम्बकं चिकीर्षितमिति । एवं "कुलसंपन्ना" इत्याद्यपि विशेषणनवकं नवरं कुलं-पैतृकः पक्षः, बलं संहननसमुत्थः प्राणः, रूपम्-श्राकृतिः, विनयज्ञाने प्रतीते दर्शनंसम्यक्त्वं, चारित्र्यं--समित्यादि लज्जा-अपवाद-भीरता संयमो वा, लाघवं-द्रव्यतोऽल्पोपाधिताभावतोगौरवत्रय-त्यागः "श्रो अंसि" ति श्रोजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः, "तेयंसि" त्ति-तेजः शरीरप्रभा तद्वन्तः तेजस्विनः, “वञ्चसि" ति वचो-वचनं सौभाग्याद्यपेतं येषामस्ति ते वचस्विनः अथवा वर्च:-तेजः प्रभाव इत्यर्थः तद्वन्तो वर्चस्विनः “जसंसि" त्ति यशस्विनः-ख्यातिमन्तः जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि-नवरं क्रोधादिजयः-उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः । 'जीविआसमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः तदुभयोपेतका इत्यर्थः-"वयप्पहाणे" ति व्रतं-यतित्वं प्रधानम्उत्तम शाक्यादि यतित्वापेक्षया निग्रन्थयातत्वाद्येषां, व्रतेन वा प्रधाना ये ते तथा निर्ग्रन्थश्रमणा इत्यर्थः-ते च न व्यवहारतः एवेत्यत आह-गुणप्पहाण' त्ति प्रतीतं नवरं गुणा:-करुणादयः। गुणप्राधान्यमेव प्रपञ्चयन्नाह'करणप्पहाणे' त्यादि विशेषणसप्तकं प्रतीतार्थ च नवरं-करणं-पिण्डविशु
धादिचरण-महाव्रतादि-निग्रहः-अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णयः विदितानुष्ठानेषु वा अवश्यं करणाभ्युपगमः आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं, क्षान्ति-क्रोधोदयनिग्रहइत्यर्थः, मुक्तिः-लोभोदयविनिरोधो विद्याः-प्रज्ञप्त्यादिकाः मंत्राः हरिणगमेष्यादि मंत्राः,वेदाः अागमाः, ऋग्वेदायो वा, ब्रह्मा-ब्रह्मचर्य कुशलानुष्ठानं वा नयाः-नीतयः नियमाः-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निलैंपता भावतोऽनवद्यसमाचारः । यच्चेह-चरणकरणग्रहणेऽप्यार्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं । "चारुवरणा" त्ति सत्कीर्तयः गौराद्यदात्त. शरीरवर्णयुक्ता वा, सत्प्रज्ञा वा “लज्जातवस्सी" "जिइंदिय" त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लजया तपाश्रिया च जितानान्द्रियाणि यैस्ते लजातप:श्रीजितेन्द्रियाः यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लजातपोशोषतत्वान्न पुनरुक्तत्वमवसेयमिति, "सोहि" त्ति सुहृदो मित्राणि जीवलोकस्यति गम्यम्-अथवा
शोधियोगाच्छोधयः-अकलुषहृदया इत्यर्थः-"अणियाण" त्ति अनिदाना' निदानरहिताः "अप्पुस्सुय" त्ति अल्पौत्सुक्या-औत्सुक्य वर्जिताः "अवहिलेस्स" ति संयमादबहिर्भूतमनोवृत्तयः 'अप्पदिलेस्सा' (वा) अप्रतिलेश्या अतुलमनोवृत्तयः "सुसामरणरयी” त्ति अतिशयेन श्रमणकर्मासक्ताः-“दंत"