________________
116 ]
Jain Granth Bhandars In Jaipur & Nagarit
Scribal remarks:
जातः श्रीवीरसिंहः सकल रिपु कुल वातनिर्धात पातो, वंशे श्री तोमराणां निज विमल यशोव्याप्तदिक चक्रवालः । दानः मानः विवेकैः न भवति समता येन साकं नृपाणां । केषामेपां कवीनां प्रभवति धिपणा वर्णने तद्गुणानां ॥१॥ ईश्वर चूड़ारत्नं विनिहतकरघात वृत्त संहातः चन्द्र इव दुग्ध सिधोस्तस्मादुद्धरण भूपतिर्जनितः ॥२॥ यस्य हि नृपतेः यशसा सहसा शुभ्रीकृतत्रिभूवनेऽस्मिन् । कैलाशपति गिरिनिकरः क्षीरति नीर शुचीयते तिमिरं ॥३॥ तत्पुत्रो वीरमेन्द्रः सकलवसुमतीपाल : चूडामणिः यः प्रख्यातसर्वलोके सकलवुध कलानंदकारी विशेपात् । तस्मिन् भूपालरत्ने निखिलनिधिग्रहे गोपदूर्ग प्रसिद्धि मंजाने प्राज्यराज्यं विगतरिपुभयं सुप्रजः सेव्यमानं ॥४॥ वंशेऽभूज्जैसवाले विमलगुणनिधि लणः .. - साधुरत्नं साधुश्रीजैनपालो भवदुदितयास्तत्सुतो दानशीलः । जैनेन्द्राराधनेषु प्रमुदितहृदयः . सेवकः . सद्गुरुरणां लोणाख्या सत्यशीलाऽजनि विमलमतिजैनपालस्य भार्या ॥५॥ जाता षट् तनयास्तयोः सुकृतिनोः श्रीहंसराजोभवत् तेषामाद्यतमस्ततस्तदनुजः
सैराजनामाऽजनि । ...... रैराजो भवराजकः समजनि प्रख्यातकीतिर्महा साधु श्रीकुशराजकस्तदनु च श्रीक्षेमराजो. लघुः ॥६॥ जातः श्रीकुशराज एवं सकलक्षमापाल चूडामणेः श्रीमत्तोमर वीरमस्य विदितो विश्वासपात्रं महान् मंत्री मंत्रविचक्षणः . क्षणमयः क्षीणारिपक्षः क्षणात् क्षोणीमीक्षणरक्षणक्षममतिजैनेन्द्रपूजारतः ॥७॥ . . स्वर्गस्पद्धिस्मृद्धिकोतिविमलश्चैत्यालयः कारितो लोकानां हृदयंगमो बहुधनैश्चन्द्रप्रभस्य प्रभोः ।। येनैतत्समकालमेवरुचिरं भव्यं च काव्यं तथा साधु श्रीकुशराजकेन सुधिया कीर्तश्चिरस्थापकं ।।८।। त्रिस्त्रस्तस्यैव भार्या. गुरणचरितयुषस्तासु रल्होभिधाना पत्नी धन्या चरित्रा व्रतनियमयुता शीलशौचेन युक्ता। दात्री देवार्चनाढ्या गृहकृतिकुशला तत्सुतः कामरूपो . . . . . . दाता कल्याण सिंहो जिनगुरुचरणाराधने तत्परोऽभूत ॥६॥