SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - ३.० ] ३ मञ्जुश्रीः । समुदाचारा बुद्धदिग्विलोकनसमर्या धर्मस्वभावप्रकृतिनिप्पत्तिचेतसः परहितपरिगतबुद्धयस्तथागतगुणाभिलाषिणो मञ्जुश्रीधर्मदेशनावैनयिकाः ॥ ૩૭ अथ खलु आयुष्मान् शारिपुत्रो गच्छन्नेव मार्गं सर्वांस्तान् भिक्षूनवलोक्य सागरबुद्धिं भिक्षुमामन्त्रयामास-पश्य सागरवुद्धे मञ्जुश्रियो वोधिसत्त्वस्य कायपरिशुद्धिमचिन्त्यां संदेवकेन लोकेन, लक्षणानुव्यञ्जनविचित्रितां प्रभामण्डलपरिशुद्धिं च, अप्रमेयसत्त्वसंजननीरनिजाल - 5 व्यूहं च, अपरिमाणसर्वदुःखप्रशमनं परिवारसंपदं च, पूर्वकुशलनूलसुपरिगृहीतान् मार्गत्र्यूहांश्च गच्छतोऽष्टापदो मार्गः संतिष्ठते । मार्गविक्रमव्यूहांश्च सर्वदिग्नण्डलाभिनुखान् वर्तनानान् पुण्यसम्यग्व्यूहांश्च वामदक्षिणेन महानिधानान्युद्वेलानि भवन्ति । पूर्ववुद्धोपस्थानकुशलमूलनिष्यन्दैश्च सर्ववृक्षकोशेभ्यो व्यूहा निर्गच्छन्ति । सर्वलोकेन्द्राः पूजामेघानभिप्रवर्षन्तः प्रणमन्ति । दशभ्यो दिग्भ्यः सर्वतथागतोणीकोशेभ्यो रश्मिजालमण्डलानि निश्वरित्वा 10 सर्वबुद्धधर्मान्निगर्जमानान् मूर्ध्नि निपतन्ति । एवंप्रमुखानायुष्मान् शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य अपरिमाणान् मार्गक्रमणगुणव्यूहांस्तेपां भिक्षूणां संदर्शयति, भाषते उदीरयति प्रभावयति संवर्णयति विवरति विभजति उत्तानीकरोति । यथा यथा स्थविरः शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य गुणानुदीरयति, तथा तथा तेषां भिक्षूणां चित्तानि विशुद्ध्यन्ति प्रसीदन्ति, प्रीतिवेगा विवर्धन्ते, हर्प उत्पद्यते, संतानानि चैपां कर्मण्यानि भवन्ति, 15 इन्द्रियाणि प्रसीदन्ति, सौमनस्यं त्रिवर्धते दौर्मनस्यं ग्रहीयते, चित्तमोऽपगच्छति, सर्वावरणानि विनिवर्तन्ते, बुद्धदर्शनमभिमुखीभवति, वुद्धधर्मेषु चित्तानि परिणमन्ति, बोधिसत्त्वेन्द्रियाणि परिशुध्यन्ते, बोधिसत्त्वप्रसादवेगा उत्पद्यन्ते, महाकरुणा संभवति, पारमिता - मण्डलमवक्रामति, महाप्रणिधानानि संजायन्ते, दशसु दिक्षु वुद्धसमुद्रा आभासीभवन्ति । ते एवमुदारं सर्वज्ञताप्रसादवेगं प्रतिलब्धा एतदवोचन् - उपनयतु उपाध्यायोऽस्मानेतस्य 20 सत्पुरुषस्य सकाशम् । अथ खलु आयुष्मान् शारिपुत्र तैर्भिक्षुभिः सार्धं येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य एतदवोचत् - इमे मञ्जुश्रीः भिक्षवः त्वद्दर्शनकामाः । अथ खलु मञ्जुश्रीः कुमारभूतो महता बोधिसत्त्वविकुर्वितेन सार्धं पर्षन्मण्डलप्रेमाणेन भूमिमण्डलेन नागावलोकितेन प्रत्युदावृत्य तान् भिक्षूनवलोकयामास । अथ खलु ते भिक्षवो मञ्जुश्रियः कुमारभूतस्य पादौ शिरोभिरभिवन्द्य अञ्जलीन् प्रगृह्य एतदवोचन् अनेन वयं सत्पुरुष 25 त्वद्दर्शन कुशलमूलेन यदप्यस्माकमन्यत्कुशलमूलं त्वं जानीषे, उपाध्यायश्च यच्च भगवतः शाक्यमुनेस्तथागतस्य प्रत्यक्षम् तेन वयं कुशलमूलेन ईदृशा एव भवेम, यादृशस्त्वम् । एवंरूपं च कायं प्रतिलभेम, एवंरूपं घोषम् एवंरूपाणि लक्षणानि, ईदृशानि विकुर्वितानि यादृशानि तव || एवमुक्ते एभिर्भिक्षुभिः मञ्जुश्रीः कुमारभूतस्तान् भिक्षूनिदमवोचत् - दशभिरपरि - 30 खेदचित्तोत्पादैः समन्वागतो भिक्षवो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा १ Bom. प्रमाणेन भूमिमण्डलेन. S 43 B 19
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy