________________
313
कल्याणमित्राणि।
३ मञ्जुश्रीः। अथ स्नल मञ्जुश्रीरपि कुमारभूतः प्रतिष्ठानकूटागारगतः सार्धं सभागचरितैर्बोधिसत्त्वैः, नित्यानुबद्धैश्च वज्रपाणिभिः, सर्वलोकवलकरणप्रयुक्ताभिश्च सर्ववुद्धोपस्थानप्रणिधानचित्ताभिः 5 शरीरकायिकाभिर्देवताभिः, पूर्वप्रणिधानानुवद्धाभिश्च पदकायिकाभिर्देवताभिः, धर्मश्रवणाभिनुखाभिश्च पृथिवीदेवताभिः, महाकरुणाप्रयुक्ताभिश्च उत्ससरोह्रदतडागोदधाननदीदेवताभिः, प्रज्ञालोकवलप्रभावभासाभिश्च ज्वलनदेवताभिः, आवद्धमकुटाभिश्च वायुदेवताभिः, सर्वदिगवभान्तज्ञानाभिश्च दिग्देवताभिः, अविद्यान्धकारविधमनप्रयुक्ताभिश्च रात्रिदेवताभिः,
तथागतदिवसाभिनिहारप्रयुक्ताभिश्च दिवसदेवताभिः, सर्वधर्मधातुगगनप्रतिमण्डलप्रयुक्ताभिश्च 10 गगनदेवताभिः, सर्वजगद्भवसमुद्रसंतारणप्रयुक्ताभिश्च सागरदेवताभिः, सर्वज्ञतासंभारसमार्जन
प्रयुक्ताभिश्च कुशलमूलकूटागाराभ्युद्गतचित्ताभिः पर्वतदेवताभिः, सर्वजगच्छरीरालंकारप्रयुक्ताभिश्च सर्वयुद्धवर्णाधिष्टानप्रणिधानप्रयुक्ताभिर्नदीदेवताभिः, सर्वजगचित्तनगरपरिपालनप्रयुक्ताभिश्च नगरदेवताभिः, सर्वधर्मनगरप्रणिधानाधिमुक्तैश्च नागेन्द्रः सार्धं सर्वसत्त्वारक्षाप्रतिपन्नश्च यक्षेन्द्रः, सर्वसत्त्वप्रीतिवेगविवर्धनप्रयुक्तैश्च गन्धर्वेन्द्रः, सर्वप्रेतगतिविनि15 वर्तनप्रयुक्तैश्च कुम्भाण्डेन्द्रः, सर्वसत्त्वभवसागराभ्युद्धरणप्रणिधिप्रतिपन्नैश्च गरुडेन्द्रैः, सर्वलोकाभ्युद्गततथागतकायबलपरिनिष्पत्तिप्रणिधानसंजातैश्च असुरेन्द्रः, तथागतदर्शनप्रीतिलब्धैश्च प्रणतकायैर्महोरगेन्द्रैः, संसारोद्विग्नमानसैश्च उल्लोकितवदनैर्देवेन्द्रैः, महागौरवप्रतिलब्धैश्च प्रणतशरीरैब्रह्मेन्द्रैः, महागौरवामिष्टुतमहितम् एवंरूपया बोधिसत्त्वविक्रमव्यूहसंपदा मञ्जश्रीर्बोधिसत्त्वः स्वकाद्विहारान्निष्कम्य भगवन्तमनेकशतकृत्वः प्रदक्षिणीकृव्य अनेका20 कारया पूजयित्वा भगवतोऽन्तिकादपक्रम्य येन दक्षिणापथस्तेन जनपदचर्या प्रक्रान्तः ॥
अथ खलु आयुष्मान् शारिपुत्रो बुद्धानुभावेन अद्राक्षीन्म श्रियं कुमारभूतमनया ईदृश्या बोधिसत्त्वविकुर्वितव्यूहसंपदा जेतवनानिष्कम्य येन दक्षिणा दिक् तेनोपसंक्रममाणम् । दृष्ट्वा च अस्यैतदभवत्-यन्वहं मञ्जश्रिया कुमारभूतेन साधं जनपदचयां प्रक्रमेयम् ।
स पष्टिमात्रैर्भिक्षुभिः परिवृतः पुरस्कृतः खकाद्विहारान्निष्क्रम्य येन भगवांस्तेनोपसंक्रामत् । 25 उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमवलोक्य भगवताभ्यनुज्ञातो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपजगाम सार्धं तैः षष्टिभिभिक्षुभिः परिवृतः पुरस्कृतः, सार्धविहारिभिर्नवकैरचिरप्रव्रजितैः, यदुत सागरबुद्धिना च भिक्षुणा, महासुदत्तेन च भिक्षुणा, पुण्यप्रभेण च महावत्सेन च विभुदत्तेन
च विशुद्धचारिणा च देवश्रिया च इन्द्रमतिना च ब्रह्मोत्तमेन च प्रशान्तमतिना च 30 भिक्षुणा । एवंप्रमुखैः षष्टिभिर्भिक्षुभिः परिवृतः पुरस्कृतः । सर्वे च ते भिक्षवः पूर्वजिनकृताधिकारा अवरोपितकुशलमूला दूरानुगताधिमुक्तयः श्रद्धानयपरिशुद्धा महाचेतना
१ Bom. महामुदत्तेन च भिक्षुणा.
S 47