________________
२.२
B53
15
गण्डव्यूहसूत्रम् । एकरोमि बहुक्षेत्रमागग
बोधिमण्डस्थित पमआसने । धर्मधातु विपुलं करित्वना
__दृश्यते द्रुमवरेणु नायकः ॥२॥ सर्वक्षेत्रपरमाणुसाइशा
एकरोनि जिन संनिपप्णकाः । बोधिसत्त्वपर्पत्परीवृताः
सर्बभद्रचरियां प्रभापते ॥३॥ एकक्षेत्रि जिन संनिपण्णकाः
सर्वक्षेत्रप्रसरान् स्फरित्वना । बोधिसत्त्व बहुमेघ अक्षया
एन्ति ते दशदिशां समन्ततो ॥ ४ ॥ क्षेत्रकोटिपरमाणुसादृशा
बोधिसत्त्वगुणसागरप्रभाः। उत्थिहन्नु पर्पसु शास्तुनो
धर्मधातु स्फरिषु दश दिशः ॥५॥ सर्वक्षेत्रप्रतिभासदर्शना
धर्मराजजिनज्ञानसागराः। ते च भद्रचरियप्रतिष्ठिताः
सर्वबुद्धपरिषा उपागमि ॥६॥ सर्वक्षेत्रप्रसरे निषण्णका
बोधिसत्त्वचरप्रीतिगोचरा। धर्ममेघ श्रुणमान सूरता
एकक्षेत्रि चरि कल्पकोटियः ॥ ७॥ बोधिसत्त्व विचरन्ति चारिकां
धर्मसागरचरी विरोचना। ओतरन्ति प्रणिधानसागरां
स्ते प्रतिष्ठ जिनभूमिगोचराः ॥ ८॥ अन्यमन्यजिनधर्मसंभवा
स्ते समन्तचरि भद्रबुद्धिषु । सर्वबुद्धगुणवर्णसागरा
नोतरन्ति विपुलं विकुर्वितम् ॥ ९॥