________________
-५६.०] ५६ समन्तभद्रचर्याप्रणिधानम् ।
४२५ लभत । सर्वतथागतपूजोपस्थानज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतेभ्य एकैकस्मात्तथागतात्सर्ववुद्धधर्मप्रश्नपरिपृच्छासंप्रतीच्छनज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतधर्मचक्रप्रवर्तननिध्यप्तिज्ञानपारमिताविहारं प्रत्यलभत । अचिन्त्यवुद्धविकुर्वितज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्माक्षयप्रतिसंविदपरान्तकोटीगतकल्पाधिष्ठानकधर्मपदनिर्देशज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्मनुद्राप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्मधातुनय- 5 सागरज्ञानपारमिताविहारं प्रत्यलभत । सर्वसत्त्वसंज्ञागतसंवसनज्ञानपारमिताविहारं प्रत्यलभत । एकक्षणसमन्तभद्रवोधिसत्त्वचर्याप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । तस्यैवं ज्ञानपारमिताविहारसमन्वागतस्य सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य मूर्ध्नि प्रतिष्ठापयामास । समनन्तरप्रतिष्ठापितश्च सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रेण बोधिसत्त्वेन मूर्ध्नि पाणिः, अथ तावदेवास्य सर्वबुद्धक्षेत्रपरमाणुरजःसमानि समाधिमुखान्यवक्रान्तानि । एकैकेन च 105 538 समाधिना सर्वबुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातुमुद्रानवतीर्णोऽभूत् । अदृष्टपूर्वा सर्ववुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञतासंभारा उपचयमगमन् । सर्ववुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञताधर्मसंभवाः प्रादुरभवन् । सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतामहाप्रस्थानैरभ्युत्थितः। सर्वबुद्धक्षेत्रपरमाणुरजःसमांश्च प्रणिधानसागरानवतीर्णः । सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च B 214 सर्वज्ञतानिर्याणपथैर्निर्यातः । सर्वबुद्धक्षेत्रपरमाणुरजःसमासु च बोधिसत्त्वचर्यासु प्रसृतः । 15 सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतावेगैर्विवर्धितः । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्ववुद्धज्ञानावभासैः प्रभावभासितः । यथा चेह सहायां लोकवातौ भगवतो वैरोचनस्य पादमूलगतः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य मूर्ध्नि प्रतिष्ठापयामास, तथा सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । एवं समन्तात् सर्वदिग्विदिक्षु सर्वलोकधातु- 20 परमाणुरजोन्तर्गतेष्वपि सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । यथा भगवतो वैरोचनस्य पादमूलगतेन समन्तभद्रेण बोधिसत्त्वेन पाणिना स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तानि, एवं सर्वसमन्तभद्रात्मभावप्रसृतैः पाणिमेधैः स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तान्यभूवन् नानानयैः ॥
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत्-दृष्टं ते कुलपुत्र मम विकुर्वितम् ? आह-दृष्टमार्य । अपि तु तथागतः प्रजानन् प्रजानीयात्तावदचिन्त्यमिदं विकुर्वितम् । सोऽवोचत्-अहं कुलपुत्र अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरितः सर्वज्ञताचित्तमभिलषमाणः । एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिता बोधिचित्तं परिशोधयता । 30 एकैकस्मिंश्च महाकल्पे सर्वत्यागसमायुक्ताः सर्वलोकविघुष्टा महायज्ञा यष्टाः । सर्वसत्त्वप्रतिपादना सर्वज्ञतापुण्यसंभारता । एकैकस्मिंश्च महाकल्पे अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपर- 539
गण्ड.५४