________________
8536
४२४ गण्डव्यूहसूत्रम् ।
[५६.०प्रदेशात् एकैकतोऽङ्गप्रदेशविभक्तितः एकैकस्माद्देहात् एकैकस्मादेहविभक्तितः एकैकस्माद्रोमविवरात् एकैकस्माद्रोमविभक्तेरिमं त्रिसाहस्रमहासाहस्र लोकधातुं सवायुस्कन्धं सपृथिवीस्कन्धं सतेजःस्कन्धं ससागरं सदीपं सनदीकं सरत्नपर्वतं ससुमेरु सचक्रवालं सग्रामनगरनिगमराष्ट्रराजधानि सवनं सभवनं सजनकायं सनरकलोकं सतिर्यग्योनिलोकं सयमलोकं 5 सासुरलोकं सनागलोकं सगरुडलोकं समनुजलोकं सदेवलोकं सब्रह्मलोकं सकामधातुविषयं सारूप्यधातुविषयं साधिष्ठानं सप्रतिष्ठानं ससंस्थानं समेघ सविद्युतं सज्योतिषं सरात्रिंदिवसार्धमासं समासर्तुं ससंवत्सरं सान्तरकल्पं सकल्पम् । यथा चेमं लोकधातुम् , एवं पूर्वस्यां दिशि सर्वलोकधातूनद्राक्षीत् । यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरस्यामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामधः ऊर्ध्वं समन्तात्सर्वदिग्विदिक्षु 10 सर्वलोकधातूनद्राक्षीत् प्रतिभासयोगेन सर्वबुद्धोत्पादान् सबोधिसत्त्वपर्षन्मण्डलान् ससत्त्वान् , याश्चेह सहायां लोकधातौ पूर्वान्तकोटीगताः सर्वलोकधातुपरंपराः, ता अपि सर्वाः समन्तभद्रस्य बोधिसत्त्वस्य एकस्मान्महापुरुषलक्षणादद्राक्षीत् सर्वबुद्धोत्पादाः सर्वबोधिसत्त्वपर्षन्मण्डलाः ससत्त्वाः सभवनाः सरात्रिंदिवाः सकल्पाः । एवमपरान्तकोटीगतानपि सर्वबुद्धक्षेत्रप्रसरानद्राक्षीत् । यथा चेह सहायां लोकधातौ पूर्वान्तापरान्तकोटीगताः सर्वलोकधातुपरंपरा 16 अद्राक्षीत् , एवं दशसु दिक्षु सर्वलोकधातुषु पूर्वान्तापरान्तकोटीगताः सर्वलोकधातुपरंपराः
समन्तभद्रस्य बोधिसत्त्वस्य कायादेकैकस्मान्महापुरुषलक्षणादेकैकस्माद्रोमविवरादद्राक्षीत् सुविभक्ता अन्योन्यासंभिन्नाः । यथा च समन्तभद्रं बोधिसत्त्वं भगवतो वैरोचनस्य तथागतस्य पुरतो महारत्नपद्मगर्भसिंहासने निषण्णमद्राक्षीत् एतद्विक्रीडितं संदर्शयमानम् , एवं पूर्वस्यां दिशि भगवतो भद्रश्रियस्तथागतस्य पद्मश्रियां लोकधातावेतदेव विक्रीडितं 20 संदर्शयमानमद्राक्षीत् । यथा च पूर्वस्यां दिशि, एवं समन्तात्सर्वदिग्विदिक्षु सर्वलोकधातुषु सर्वतथागतपादमूलेषु समन्तभद्रं बोधिसत्त्वं महारतपद्मगर्भसिंहासने निषण्णमेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत् । यथा च दशसु दिक्षु, एवं सर्वलोकधातुषु तथागतपादमूलेषु महारत्नपभगर्भसिंहासने निषण्णमेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत् । एवं समन्ताद्दशसु दिक्षु सर्वबुद्धक्षेत्रपरमाणुरजःसमेषु एकैकस्मिन् परमाणुरजसि धर्मधातुविपुलेषु बुद्धधर्मपर्षन्मण्डलेषु 25 सर्वतथागतपादमूलेषु समन्तभद्रं बोधिसत्त्वमद्राक्षीत् । एकैकतश्च अस्यात्मभावाध्यध्वप्राप्तानि सर्वारम्बणानि अभिविज्ञप्यमानानि अपश्यत्प्रतिभासयोगेन, सर्वक्षेत्राण्यपि सर्वसत्त्वानपि सर्वबुद्धोत्पादानपि सर्वबोधिसत्त्वपर्षन्मण्डलान्यभिविज्ञप्यमानानपश्यत् प्रतिभासयोगेन । सर्वसत्त्वरतानि च सर्वबुद्धघोषांश्च सर्वतथागतधर्मचक्रप्रवर्तनानि च सर्वानुशासन्यादेशनप्रातिहार्याणि च सर्वबोधिसत्त्वसमुदागमांश्च सर्वबुद्धविक्रीडितानि चाश्रौषीत् ॥ 30 स तदचिन्त्यं समन्तभद्रमहाबोधिसत्त्वविक्रीडितं दृष्ट्वा श्रुत्वा च दश ज्ञानपारमिताविहारान् प्रत्यलभत । कतमान् दश ? यदुत एकचित्तक्षणे सर्वबुद्धक्षेत्रकायस्फरणज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतपादमूलोपसंक्रमणासंभिन्नज्ञानपारमिताविहारं प्रत्य
8537