________________
४१८ गण्डव्यूहसूत्रम् ।
[५४.-१७८ प्रतिवसामि । इतश्चाहं च्युतः तुषितभवने उपपत्तिं संदर्शयिष्यामि यथाशये सत्त्वानुवर्तनतायै, तुषितकायिकानां च सभागचरितानां देवपुत्राणां परिपाकाय, सर्वकामधातुसमतिक्रान्तानां बोधिसत्त्वपुण्यज्ञान निर्माणव्यूहसंदर्शनतायै, कामरतितृष्णाविनिवर्तनताय, सर्वसंसारानित्यत्वपरिदीपनताय, विपत्तिपर्यवसानसर्वदेवोपपत्तिसंदर्शनताय, च्यवनाकारं नाम महाज्ञानधर्म5 मुखमेकजातिबद्धर्बोधिसत्त्वैः सार्धं संगायनाय, सहपरिपाचितानां च तत्रोपपत्तिसंग्रहणतायै, शाक्यमुनिसंप्रेषितानां च विनेयकलानां प्रबोधनतायै । काले परिपूर्णाभिप्रायसर्वज्ञतामधिगमिष्यामि । बोधिप्राप्तं च मां कुलपुत्र त्वं पुनरपि द्रक्ष्यसि साधू मञ्जश्रिया कल्याणमित्रेण ॥
__ अपि तु खलु पुनः कुलपुत्र-गच्छ त्वं तमेव मञ्जश्रियं कुमारभूतम् । उपसंक्रम्य
परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् , कथं s_598 10 समन्तभद्रचर्यामण्डलमवतरितव्यम् , कथमभिनिर्हर्तव्यम् , कथं प्रणिधातव्यम् , कथं विपुली
कर्तव्यम् , कथमनुसतव्यम् , कथं पर्यदातव्यम् , कथं प्रवेष्टव्यम् , कथं परिपूरयितव्यम् । स ते कुलपुत्र कल्याणमित्रं संदर्शयिष्यति । तत्कस्य हेतोः ? स कुलपुत्र बोधिसत्त्वकोटीनियुतशतसहस्राणां प्रणिधानविशेषः संविद्यते यो मञ्जश्रियः कुमारभूतस्य । विस्तीर्णः
कुलपुत्र मञ्जश्रियः कुमारभूतस्य चर्यानिरिः । अप्रमाणो मञ्जश्रियः कुमारभूतस्य प्रणि15 धानाभिनिरिः । अप्रतिप्रस्रब्धो मञ्जश्रियः कुमारभूतस्य सर्वबोधिसत्त्वगुणविशेषाभिनिर्हारः। माता मञ्जुश्रीः कुमारभूतो बुद्धकोटीनियुतशतसहस्राणाम् । अववादको मञ्जुश्रीः कुमारभूतो वोधिसत्त्वकोटीनियुतशतसहस्राणाम् । उद्युक्तो मञ्जुश्रीः कुमारभूतः सर्वसत्त्वधातुपरिपाकविनयाय । विस्तीर्णनामचक्रो मञ्जुश्रीः कुमारभूतो दशदिक्सर्वलोकधातुषु । कथापुरुषो
मञ्जुश्रीः कुमारभूतोऽनमिलाप्येषु तथागतपर्षन्मण्डलेषु । संवर्णितो मञ्जुश्रीः कुमारभूतः 20 सर्वतथागतैः । गम्भीरधर्मज्ञानविहारी मञ्जुश्रीः कुमारभूतः सर्वधर्मयथार्थदर्शी । दूरागतगोचरो मञ्जुश्रीः कुमारभूतः सर्वविमोक्षनयेषु । अवतीर्णः समन्तभद्रबोधिसत्त्वचर्यायाम् । स ते कुलपुत्र कल्याणमित्रजनकः, तथागतकुले संवर्धकः, सर्वकुशलमूलानुत्थापकः, बोधिसंभाराणां दर्शकः, भूतकल्याणमित्राणां समादापकः, सर्वगुणेषु अवतारकः, महाप्रणिधानजाले प्रतिष्ठापकः, सर्वप्रणिधानाभिनिहारेषु श्रावयिता, सर्वबोधिसत्त्वगुह्यानां संदर्शकः, 25 सर्वबोधिसत्त्वाचिन्त्यतायाः सभागचरितः पूर्वजन्मसंवासेषु । तस्मात्तर्हि त्वं कुलपुत्र मञ्जुश्रीपादमूलगतः एव मा परीत्तमनमुत्पादय, मा परिखेदं जनय सर्वगुणानुशासनीप्रतिलम्भेषु । तत्कस्य हेतोः? यावन्ति त्वया सुधन कल्याणमित्राणि दृष्टानि, यावन्ति चर्यामुखानि श्रुतानि,
यावन्तो विमोक्षनया अवतीर्णाः, यावन्तः प्रणिधानविशेषा अवगाढाः, सर्व मञ्जश्रियः B 210 कुमारभूतस्यानुभावोऽधिष्ठानं च द्रष्टव्यम् । स च मञ्जुश्रीः कुमारभूतः परमपारमिताप्राप्तः ॥
30 अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्ध मैत्रेयं
बोधिसत्त्वं महासत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रेयस्य बोधि- सत्त्वस्यान्तिकात् प्रक्रान्तः ॥ ५२ ॥
S529
o0OKoem