________________
-५४.१७८]
५४ मैत्रेयः। जनको....। सर्वधर्मप्रतिपत्तिः कुलपुत्र बोधिसत्त्वानां जन्मभूमिः । अतीतानागतप्रत्युत्पन्न- 526 सर्वतथागतकुले जनयित्री जन्मभूमिः । इमाः कुलपुत्र बोधिसत्त्वानां दश जन्मभूमयः ॥
प्रज्ञापारमिता कुलपुत्र बोधिसत्त्वानां माता, उपायकौशल्यं पिता, दानपारमिता स्तन्यम् , शीलपारमिता धात्री, क्षान्तिपारमिता भूषणालंकारः, वीर्यपारमिता संवर्धिका, ध्यानपारमिता चर्याविशुद्धिः, कल्याणमित्राणि शिक्षाचर्यः, सर्वबोध्यङ्गानि सहायाः, सर्व । बोधिसत्त्वा भ्रातरः, बोधिचित्तं कुलम् , प्रतिपत्तिः कुलधर्माः, भूम्यवस्थानं क्षान्तिप्रतिलम्भः, कुलाभिजातिः प्रणिधानाभिनिर्हारः, कुलविद्यालाभः चर्याविशुद्धिः, कुलधर्मानुवर्तनता महायानसमादापना, कुलवंशाव्यवच्छेदः अभिषेकैकजातिप्रतिवद्धता, धर्मराजेषु पुत्रत्वम् , सर्वतथागतसमुदागमः कुलवंशपरिशुद्धिः । एवं हि कुलपुत्र बोधिसत्त्वोऽतिक्रान्तो भवति बालपृथग्जनभूमिम् । अवक्रान्तो भवति बोधिसत्त्वनियामम् । संभूतो भवति तथागतकूले । 10 प्रतिष्ठितो भवति तथागतवंशे । अव्यवच्छेदाय प्रतिपन्नो भवति त्रिरत्नवंशस्य । परिपालनाभियुक्तो भवति बोधिसत्त्वकुलस्य । परिशुद्धो भवति जातिगोत्रेण । अनुपक्रुष्टो भवति वर्णजाल्योः । अनवद्यो भवति सर्वजातः । अदोषः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् । कुलीनो भवति उत्तमबुद्धकुलसंभूतो महाप्रणिधिगर्भशरीरः॥
एवं कुलजातिसमृद्धाश्च कुलपुत्र बोधिसत्त्वाः प्रतिभासायतनसंर्वधर्मपरिज्ञातत्यान्न 15 B 209 विजुगुप्सन्ते सर्वलोकोपपत्तिषु । निर्मितोपमसर्वभवोपपत्तिपरिज्ञातवान्न संक्लिश्यन्ते सर्वभवगत्युपपत्तिसंवासेषु । निरात्मसर्वबुद्धत्वान्न परिखिद्यन्ते सर्वसत्त्वपरिपाकविनयेषु । महामैत्रीमहाकरुणाशरीरत्वान्न श्राम्यन्ति सर्वसत्त्वानुग्रहेषु । स्वप्नोपमसंसाराधिमुक्तत्वान्न परित्रसन्ति सर्वकल्पसंवासेषु । मायामयं च स्कन्धपरिज्ञातत्वान्न क्राम्यन्ति सर्वजन्मच्युतिमरणसंदर्शनेन । धर्मधातुप्रकृतिकत्वायतनमुचित्वान्न क्षण्यन्ते सर्वविषयेषु । मरीच्युपमसर्वसंज्ञागतसुभावित- 20 त्वान्न मुह्यन्ति सर्वसंसारगतिषु । मायोपमसर्वधर्मविक्रीडितत्वादनुपलिप्ता भवन्ति सर्वमारविषयैः । सर्वकायप्रभावितत्वादवञ्चनीया भवन्ति सर्वक्लेशैः । उपपत्तिवशितालब्धत्वाद्गतिंगता । S527 भवन्ति सर्वगतिषु । सोऽहं कुलपुत्र सर्वलोकधातूपपत्यन्तर्गतेन कायेन सर्वजगद्रूपसमैर्बलविशेषैः सर्वसत्त्वोपमैर्निरुक्तिसंभेदैः सर्वजगदुपमाभिर्नामधेयविमात्रताभिः सर्वसत्त्वाधिमुक्तिसमैरीर्यापथैः, सर्वजगद्विनयप्रमाणैर्लोकानुवर्तनैः, सर्वविशुद्धिसमैजन्मकुलोपपत्तिसंदर्शनैः, क्रियाव-25 तारमुखैः सर्वसत्त्वसंज्ञानुप्रवेशैः सर्वबोधिसत्त्वप्रणिधिनिर्माणसमैरात्मभावसंदर्शनप्रभावनैः सर्वधर्मघातुं स्फरित्वा पूर्वसभागचरितानां सत्त्वानां प्रनष्टबोधिचित्तानां परिपाचनार्थ जम्बुद्वीपे च जन्मोपपत्तिसंदर्शनार्थमिह दक्षिणापथे मालदेषु जनपदेषु कूटग्रामके ब्राह्मणकुलेषूपपन्नानां मातृपितृज्ञातिसंबन्धिनां विनयाथै ब्राह्मणकुलजातिविशेषेण चैषां जात्यभिमानिकानिरभिमानतायै तथागतकुले संजननार्थमिहोपपन्नः। सोऽहं कुलपुत्र इह दक्षिणापथे अननोपायेन यथा- 30 शयानां सत्त्वानां यथाविनेयानां परिपाकविनयं कुर्वन् इहैव वैरोचनव्यूहालंकारगर्भ कूटागारे
१ Bom. कल्याण...नुवर्तनता.
गण्ड.५३