________________
-५६.१७८] ५४ मैत्रेयः।
४११ घण्टाकिङ्किणीजालतूर्यसंगीतिप्रभृतीन्यारम्बणानि सत्त्वेभ्यस्तेभ्योऽचिन्त्यमेघनिगर्जितनिर्घोपशब्दं निश्चरन्तमश्रौषीत् । क्वचिद्बोधिचित्तविमानतां कचित्पारमिताच प्रणिधानविमानों क्वचिद्भुम्यप्रमाणविमात्रतां कचिदभिज्ञाचिन्लविकुर्वितविमात्रतां कचित्तथागतपूजाविनात्र्यविमात्रतां कचिठ्ठद्धक्षेत्रव्यूहविमात्रतां कचिदप्रमाणतथागतधर्ममेघविधात्रताम् एवं सर्वधर्मनिर्घोपान् यथापूर्वपरिकीर्तितानश्रौषीत् । कचित्तर्वज्ञताप्रस्थानशब्दनश्री नीत-अनुन्निन् । लोकधातावमुको नाम बोधिसत्त्वो बोधिचित्तमुत्पादयति अमुकं धर्ममुखं श्रुत्वा अमुकेन कल्याणमित्रेण समादापितोऽमुकस्य तथागतस्य पादमूले एवंनाम्नि कल्पे ईदृशे वुद्धक्षेत्रे ईदृक्पर्पन्मध्यगते ईदृशं कुशलमूलमूलभवरोप्य ईदृशांस्तथागतगुणान् श्रुत्वा ईदृशेनाध्या- E205 शयेन ईदृश्या प्रणिधानविमात्रतया । इयतः कल्पान् बोधिसत्त्वचयाँ चरित्या इयद्भिः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । ईदृग्नामधेयः ईदृशेन आयुःप्रमाणेन ईदृश्या 10 बुद्धक्षेत्रगुणव्यूहसंपदा । ईदृशेन प्रणिधानविशेपेण ईदृशेन सत्त्वविनयेन ईदृशेन श्रावकप्रत्येकबुद्धवोधिसत्त्वसंनिपातेन । तस्य परिनिर्वृतस्य इयतः कल्पान् सद्धर्मः स्थास्यति, इयान् समर्थों भविष्यति । कचिन्नि?षमश्रौषीत्-अमुष्मिल्लोकधातावमुको नाम बोधिसत्त्यो दान- 517 पारमितायां चरनीदृशानि दुष्करपरित्यागशतानि करोति । अमुको बोधिसत्त्वः शीलं रक्षति, क्षान्ति भावयति, वीर्यमालभते, च्यानानि समापद्यते प्रज्ञाविचयप्रयुक्तः । अमुको बोषित्तत्वः 15 सद्धर्मपर्येष्टिहतो राजपरित्यागं करोति, रत्नपरित्यागं पुत्रपरित्यागं भायोपरित्यागं हन्तपादनयनोत्तमाङ्गपरित्यागं करोति, अग्निप्रपतनं करोति । अमुको नाम बोधिसत्त्वः तथागतशासनमभ्युद्गतो धर्मभाणकत्वं करोति, धर्मदानं ददाति, धर्मयज्ञं यजति, धर्मध्वजमुच्छ्यति, धर्मभेरी पराहन्ति, धर्मशङ्खमापूरयति, धर्मवर्ष प्रवर्षति, तथागतशासनं धारयति, तथागत
चैत्यान्यलंकरोति, तथागतविग्रहान् कारयति, सत्त्वसुखोपधानमुपसंहरति, सद्धर्मकोश- 20 मारक्षति । कचिन्निर्घोपमश्रौषीत्-अमुष्मिल्लोकधातावसुको नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति, धर्म च देशयति एवंनाम्नाभिषेकेण ईदृश्यां पर्षदि ईदृशे वुद्धक्षेत्रे ईदृशे कल्पे ईदृशेनायुःप्रमाणेन ईदृश्या धर्मदेशनया ईदृशेन सत्त्वविनयेन ईदृक्प्रणिध्यभिसंबोधेन । एवमेकैकस्माद् घण्टाकिङ्किणीजालतूर्यादिकादारम्बणादप्रमाणधर्ममुखविमात्रतानिर्घोषानश्रीपीत् । सर्वेषां च तेषां निर्घोषाणां श्रवेण सुधनः श्रेष्ठिदारको विपुलप्रीतिवेगाभिष्यन्दित- 25 चित्तस्तानि धर्ममुखानि शृणोति । क्वचिद्धारणीमुखानि प्रत्यलभत, क्वचित्प्रणिधानमुखानि कचित्क्षान्तिमुखानि, क्वचिचर्यामुखानि, कचित्प्रणिधानमुखानि, क्वचित्पारमितामुखानि, क्वचिदभिज्ञामुखानि, कचिद्विद्याज्ञानालोकमुखानि, क्वचिद्विमोक्षमुखानि, कचित्समाधिप्रवेशमुखानि प्रत्यलभत ॥
तेभ्यश्च .आदर्शमण्डलेभ्योऽपरिमाणप्रतिभासव्यूहविज्ञप्तिमपश्यत् । कचित्तथागत- 30 पर्षन्मण्डलप्रतिभासविज्ञप्तिं कचिद्बोधिसत्त्वपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचिच्छावकपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्प्रत्येकबुद्धपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्तथागतपर्षन्मण्डल