SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ S 515 S 516 गण्डव्यूहसूत्रम् । [ ५४.१७८ क्वचित्कूटागारे निर्माणवतीं बोधिसत्त्वसमाधिं समापन्नान् बोधिसत्त्वानपश्यत् । तेषां च सर्वशरीररोममुखेभ्यः सर्वनिर्माण मेघान्निश्चरतोऽपश्यत् । केषांचित्सर्वरोममुखेभ्यो देवनिकायमेघान्निश्चरतोऽपश्यत् । केषांचिन्नागयक्षगन्धर्वासुरगरुड किन्नरमहोरगशऋब्रह्मलोकपालचक्र - यतिमेधान् केपांचित्को राजमेधान् केषां चिद्राजकुमारमेधान् केषां चिच्छ्रेष्ठधमात्यगृहपतिमेधान् 5 के पांचिच्छ्रावक प्रत्येकबुद्धवोधिसत्त्वमेवान् केपांचित्तथागतकायमेवान् केपांचित्सर्वशरीररोममुखेभ्योऽप्रमाणान् सर्वसत्त्वनिर्माणमेवान्निश्वरतोऽपश्यत् । केषांचित्सर्वरोममुखेभ्यो विविधानि धर्ममुखानि निश्वरमाणान्य श्रौषीत् - यदुत बोधिसत्त्वगुणवर्णमुखानि दानपारमितामुखानि शीलञ्जन्तिवीर्यध्यानप्रज्ञोपायप्रणिधान बलज्ञानपारमितामुखानि संग्रहवस्तुध्यानाप्रमाणसमाधिसमापत्त्यभिज्ञाविद्याधारणीप्रतिभानसत्यप्रतिसंविच्छमथविपश्यनाविमोक्षमुग्वप्रतीत्यसमुत्पाद ४१० 10 प्रतिशरणधर्मोद्दान स्मृत्युपस्थान सम्यक्प्रहाणर्द्धिपादेन्द्रियवलबोध्यङ्गमार्गश्रावकयानकथाप्रत्येकबुद्धयानकथामहायानकथाभूमिक्षान्तिचर्याप्रणिधानमुखानि एवं सर्वधर्ममुखप्रवेशशब्दान्निश्चरतोऽश्रौषीत् । कचित्कूटागारे तथागतपर्षन्मण्डलसंनिपातानद्राक्षीत् । तेषां च तथागतानां नानाविमात्रतां जन्मकुलविमात्रतां कायव्यूहाप्रमाणविमात्रतामायुर्विमात्रतां क्षेत्रविमात्रतां कल्पविमात्रतां धर्मदेशनाविमात्रतां निर्माणमुखविमात्रतां सद्धर्मस्थितिविमात्रतां यावदशेष15 सर्वाकारपर्षन्मण्डलविमात्रतामद्राक्षीत् ॥ मध्ये च वैरोचनव्यूहालंकारगर्भस्य महाकूट (गारस्य एकमुदारतरं विस्तीर्णतरं च तदन्यसर्वकूटागाराशेषसर्वव्यूहातिरिक्ततरव्यूह समलंकृतं कूटागारमद्राक्षीत् । स तस्य कूटागारस्याभ्यन्तरे त्रिसाहस्रमहा साहस्रं लोकधातुमद्राक्षीत् । तस्मिंश्च त्रिसाहस्रमहासाहस्रे लोकधातौ कोटीशतं चातुर्द्वीपिकानां कोटीशतं जम्बुद्वीपकानां कोटीशतं तुपितभवनाना20 मद्राक्षीत् । स तत्र जम्बुद्वीपेषु मैत्रेयं बोधिसत्त्वं पद्मगर्भगतं जायमानमपश्यत् । ब्रह्माभ्यां प्रतीक्ष्यमाणं सप्तपदानि प्रक्रान्तं दश दिशो व्यवलोकयमानं महासिंहनादं नदन्तं सर्वकुमारभूमिं संदर्शयमानं अन्तःपुरमध्ये गतमुद्यानभूमिं निष्क्रान्तं सर्वज्ञताभिमुखमभिनिष्क्रम्य प्रव्रजन्तं दुष्करचय संदर्शयन्तमाहारं परिभुञ्जानं बोधिमण्डमुपसंक्रान्तं मारं धर्षमाणं बोधिं विबुध्यमानं बोधिवृक्षमनिमिषं निरीक्षमाणं महाब्रह्मणाध्येष्यमाणं धर्मचक्रं 25 प्रवर्तयमानं देवभवनेषु प्रविशन्तमद्राक्षीत् । नानाभिसंबोधिधर्मचक्रप्रवर्तनविषयसंदर्शनविमात्रताभिर्नानाकल्पनामप्रवर्तन विमात्रताभिर्नानायुः प्रमाणविमात्रताभिर्नानापर्षन्मण्डलव्यूहविमात्रताभिर्नानाक्षेत्र विशुद्धिनयसंदर्शनविमात्रताभिः नानाचर्याप्रणिधानप्रभावनाविमात्रताभिः नानाधर्मदेशनाव्यवस्थान सर्वपरिपाचनोपायविमात्रताभिः नानाधातुविभङ्गशासनस्थित्यधिष्ठानसंदर्शन विमात्रताभिः । सर्वत्र च तत्र सुधनः श्रेष्ठिदारकः पादमूलगतमात्मानं 30 संजानीते स्म ॥ स सर्वपर्षन्मण्डलेषु सर्वक्रियासंदर्शनेषु सर्वायुः प्रमाणविमात्रतासु असंप्रमुषितेन स्मृत्यधिष्ठानज्ञानेन सर्वसंज्ञागतव्यवसितायां ज्ञानभूमौ स्थितो यावन्ति तेषु सर्वकूटागारेषु
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy