________________
S445
-४४.०] ४४ माया।
३४९ विकीर्णा । तेन च भगवता विमलध्वजेन तथागतेन अनुत्तरा सम्य संबोधिरभिसंबुद्धा । अथ खलु नेत्रश्रीबोधिमण्डदेवता महातेजःपराक्रमस्य चक्रवर्तिनोऽन्तिक पुत्रसंज्ञामुत्पाद्य तस्य तथागतस्य चरणयोः प्रणिपत्य प्रणिधानमझापात्-यत्र यत्राहं भगवन् उत्पद्येयन् , तत्र तत्रैष मे महातेजःपराक्रमश्चक्रवर्ती पुत्रो भवेत् । यदा चैपोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, तदाप्यहमेतस्य जननी भवेयम् । सैवं प्रणिधानं कृत्वा तस्मिन्नेव चित्रमञ्जरिप्रभासे । बोधिमण्डे तस्मिन्नेव शुभप्रभे कल्पे दश नयुतानि तथागतानामारागयामास ॥
तल्कि मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन नेत्रश्री म बोधिमण्डदेवता अभूत् ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं सा तेन कालेन तेन 5445 समयेन नेत्रश्रीर्नाम वोधिमण्डदेवता अभूवम् । तत्कि मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन महातेजःपराक्रमो नाम चक्रवर्त्य भूद्बोधिसत्त्ववशिताप्रतिलब्धो महर्द्धिक- 10 विकुर्वितनिर्यातो येन सा महती मारसेना विकीर्णा ? न खल्वेवं द्रष्टव्यम् । अयं स भगवान् वैरोचनस्तथागतोऽईन् सम्यक्संबुद्धः तेन कालेन तेन समयेन महातेजःपराक्रमो नाम राजा चक्रवर्त्यभूत् । सा अहं कुलपुत्र तत उपादाय यत्रतत्रोपपन्ना, सर्वत्र एष मम पुत्रत्वमुपागतः सर्वबुद्धक्षेत्रेषु बोधिसत्त्वचर्यां चरन् सर्वगतिमुखेषु सर्वोपपत्तिमुखेषु सर्वकुशलमूलमुखेषु सर्वबोधिसत्त्वचर्याविचारपराक्रमेषु सर्वजातकनयेषु सर्वदेवेन्द्रजन्मसु 15 सर्वलोकेन्द्रगतेषु सर्वेश्वर भूमिषु सर्वगतिप्रभागेषु । यत्र यत्रोपपद्यते सत्त्वपरिपाकहेतोः, सर्वत्र अहमेवास्य जनन्यभूवम् । चरमे च भवेऽस्य अहमेव सर्वत्रानुगता जनन्यभूवम् । सर्वबोधिसत्त्वजन्ममुखेषु क्षणे क्षणे यावन्ति बोधिसत्त्वजन्मविकुर्वितान्यादर्शयामास, सर्वत्राहमेवास्य माता अभूवम् । अतीतानामपि तथागतानाम् , अनन्तमध्यानामपरिमाणानामहं जनन्यभूवम् । प्रत्युत्पन्नानामपि दशसु दिक्षु अनन्तमध्यानामपरिमाणानां तथागताना- 20 महमेव जननीत्वं प्रत्यनुभवामि । यावतां च तथागतानामहं चरमे भवे वोधिसत्त्वमाता अभूवम् , सर्वेषां च तेषां तथागतानां नाभिमण्डलेभ्यो रश्मयो निश्चरित्वा महाकायमासनं चावभासयामासुः । एतमहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं महाकरुणागर्भाणां बोधिसत्त्वानां सर्वज्ञतापरिपाकविनयापरितृप्तकुक्षीणां सर्वतथागतविकुर्वितरोममुखनिर्यातनिदर्शनवशवर्तिनां चयाँ ज्ञातुं गुणान् वा 25 वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव त्रिदशेन्द्रभवने सुरेन्द्राभा नाम देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपतव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मायाया देव्याः पादौ शिरसाभिवन्द्य मायादेवीमनेक- 30 448 शतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मायादेव्या अन्तिकाअक्रान्तः ॥ ४२ ॥