________________
B 177
गण्डब्यूहसूत्रम् ।
[४४.०सागरस्य अपराजितमेरोरनिलयज्ञानस्य अनन्तासनस्य अयुधिष्ठिरस्य चर्यागतस्य उत्तरदत्तस्य अत्यन्तचन्द्रमसोऽनुग्रहचन्द्रस्य अचलस्कन्धस्य अग्रसानुमतेरनुग्रहमतेरभ्युद्धरस्य अर्चितनमस्यानुपगमनाम्नो निहततेजसो विश्ववर्णस्य अनिमित्तप्रज्ञस्य अचलदेवस्य अचिन्त्यश्रियो विमोक्षचन्द्रस्य अनुत्तरराजस्य चन्द्रस्कन्धार्चितब्रह्मणोऽकम्प्यनेत्रस्य अनुनयगात्रस्य अभ्यु. 5 द्तकर्मणोऽनुधर्ममतेरनुत्तरश्रियो ब्रह्मदेवस्य अचिन्त्यगुणानुत्तरधर्मगोचरस्य अपर्यन्तभद्रस्य
अनुरूपखरस्य अभ्युच्चदेवस्य बोधिसत्त्वस्य । इति हि कुलपुत्र एतान् मैत्रेयप्रमुखाननागतांस्तथागतान् प्रमुखान् कृत्वा सर्वेषां भद्रकल्पिकानां तथागतानामर्हतां सम्यक्संबुद्धानामहमेव जननी भविष्यामि अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ । यथा च इह लोक
धातौ, तथा दशसु दिक्षु अपरिमाणेषु लोकधातुषु अनन्तमध्यान् धर्मधातुनयानवतरमाणा यथा 10 च मैत्रेयस्य तथागतस्य अनभिलाप्यैर्गुणविशेषैर्जननी भविष्यामि, एवमनभिलाप्यगुणविशेषैः सिंहस्य एवं यावद्रोचमस्य तथागतस्य जननी भविष्यामि । यथा च भद्रकल्पिकानां तथागतानाम् , एवमस्मिन् सर्वावति कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वलोकधातुषु सर्वजम्बुद्वीपेष्वपरान्तकोटीगतान् कल्पान् समन्त
भद्रायां बोधिसत्त्वचर्यायां चरमाणा सर्वकल्पेषु सर्वसत्त्वपरिपाकविनयमधिष्ठाय सर्वेषामना16 गतानां तथागतानां बोधिसत्त्वभूतानां जननी भविष्यामि ॥
___एवमुक्ते सुधनः श्रेष्ठिदारको मायादेवीमेतदवोचत्—कियच्चिरप्रतिलब्धस्त्वया अयमार्ये महाप्रणिधानज्ञानमायागतव्यूहो बोधिसत्त्वविमोक्षः ? आह-भूतपूर्व कुलपुत्र अतीतेऽध्वनि अचिन्त्यानां चित्तविषयसमतिक्रान्तानामभिजातबोधिसत्त्वचक्षुष्पथविज्ञप्तानां विज्ञानगणनासमतिक्रान्तानां परेण शुभप्रभो नाम कल्पोऽभूत् । तस्मिन् खल पुनः शुभप्रभे 20 कल्पे मेरूद्भतश्री म लोकधातुरभूद्विशुद्धसंक्लिष्टानेकरत्नमयी सचक्रवालसुमेरुसागरा पञ्चगति
प्रचारा चित्रा दर्शनीया । तस्यां खलु मेरूद्भतश्रियां लोकधातौ दश चातुर्दीपिककोटीशतान्यभूवन् । तेषां खलु दशानां चातुर्दीपिककोटीशतानां मध्ये सिंहध्वजाग्रतेजो नाम मध्यमा चातुर्दीपिकाभूत् , यस्यामशीतिराजधानीकोटीशतान्यभूवन् । तेषां खलु अशीतीनां राजधानीकोटीशतानां मध्ये ध्वजारवती नाम मध्यमराजधान्यभूत् । तस्यां महातेजः25 पराक्रमो नाम राजा अभूच्चक्रवर्ती । तस्यां खलु पुनर्ध्वजाप्रवत्यां राजधान्यां चित्रमञ्जरिप्रभासो नाम बोधिमण्डोऽभूत् । तत्र नेत्रश्री म बोधिमण्डदेवता अभूत् । तस्मिन् खलु पुनश्चित्रमञ्जरिप्रभासे बोधिमण्डे विमलध्वजो नाम बोधिसत्त्वो निषण्णोऽभूत् सर्वज्ञताधर्माधिगमाय । तस्य सर्वज्ञताधर्माधिगमान्तरायाय सुवर्णप्रभो नाम मारो महासैन्यपरिवारोऽन्तधितकाय उपक्रान्तोऽभूत् । स च महातेजःपराक्रमश्चक्रवर्ती बोधिसत्त्ववशिताप्रतिलब्धोऽ30 भूत् महर्द्धिविकुर्वितनिर्यातः । स ततो महासैन्याद्विपुलतरमुग्रतरं च महान्तं बलकायमभिनिर्माय तं बोधिमण्डं समन्तादनुपरिवारयामास मारसैन्यपराजयाय । तेन हि महती मारसेना
8444
-
D
-
--