SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ४०.१०१] ४३ गोपा। शूराणि वीराण्यथ रूपवन्ति पञ्चाभवन् पुत्रशतानि तस्य । सर्वाङ्गसंपूर्णविशुद्धकाया न्यनुत्तमश्रीप्रतिमण्डितानि ॥ ९४ ॥ राजा सपुत्रः सुगते प्रसन्नः पूजामकार्षीद्विपुलां जिनस्य । नित्यं च सद्धर्मपरिग्रहोऽसौ __ धर्माभियुक्तोऽभवदप्रकम्प्यः ॥ ९५॥ सुरश्मिनामा च नृपस्य तस्य विशुद्धसत्त्वोऽयमभूत्कुमारः। सुदर्शनीयश्च मनोज्ञरूपः त्रिंशद्वरालंकृतलक्षणाङ्गः ॥ ९६ ॥ राज्यं परित्यज्य नृणां स पञ्च___ कोटीवृतः प्रव्रजितस्तदानीम् । स प्रत्रजित्वा दृढवीर्ययुक्तः संधारयामास जिनस्य धर्मम् ॥ ९७ ॥ द्रुमावती नाम पुरी वृताभूत् कोटीसहानगरोत्तमानाम् । आसीद्वनं तत्र विचित्रशाखं प्रशान्तनिर्घोषमनुत्तरश्रियम् ॥ ९८॥ यतः सुरश्मिर्विजहार तस्मिन् विशारदो धीप्रतिभानशुद्धः । स द्योतयामास जिनस्य धर्म संक्लिष्टसत्त्वौघविशोधनाय ॥ ९९ ॥ पिण्डाय धीमान् स पुरं विवेश प्रासादिकेर्यापथशान्तवेषः । अनुत्क्षिप्तचक्षुः स्मृतिमान् प्रजानन् गम्भीरचेष्टः स्थिरधीरगामी ॥ १०० ॥ नन्दीध्वजोऽभूत्वरः पुराणां श्रेष्ठी तदानीं सुविधुष्टकीर्तिः । तस्याहमासं दुहिता मनापा। भानुप्रभा नाम सुचारुरूपा ।। १०१॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy