SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३३४ गण्डव्यूहसूत्रम् । [४३.९०अनन्तमध्यवर्णनिर्मितमेघसमुद्रसर्वरोममुखप्रमुञ्चकानां सर्वशरीरधर्मताखभावप्रकृतिपरिशुद्धानामाकाशलक्षणजगत्प्रकृत्यवबोधनिर्विकल्पानां सर्वत्रानुगतबुद्धिविनिश्चयतथागतसमविकुर्वितपरमाणाम् अनन्तमध्यविमोक्षविषयविकुर्वितनिर्यातानां विपुलधर्मधातुचित्तोत्पादप्रवेशविहारवशवर्तिनां समन्तमुखसर्वधर्मभूमिविमोक्षसागरविक्रीडितानां चर्या ज्ञातुं गुणान 5 वा वक्तुम् , निखिलान् वा गुणनिधीन् संदर्शयितुम् ॥ गच्छ कुलपुत्र, इहैव भगवतो वैरोचनस्य पादमूले विविधरत्नव्यूहमहामणिराजपद्मगर्भासननिषण्णा बोधिसत्त्वजनेत्री माया नाम देवी । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्तोऽनुपलिप्ता भवन्ति सर्वलोकधर्ममलैः । अप्रतिप्रस्रब्धा भवन्ति तथागत पूजाप्रयोगेषु । अवैवर्तिका भवन्ति सर्वबोधिसत्त्वकर्मान्तेभ्यः । सर्वावरणविगता भवन्ति 10 बोधिसत्त्वविमोक्षावतारेषु । अपरप्रत्यया भवन्ति सर्वबोधिसत्त्वविहारेषु । संमुखीभावगता भवन्ति सर्वतथागतानाम् । न विवर्तन्ते सर्वसत्त्वसंग्रहप्रयोगेभ्यः, न निवर्तन्तेऽपरान्तकोटीगतकल्पसर्वबोधिसत्त्वचर्यासंवासेभ्यः । न प्रत्युदावर्तन्ते महायानप्रणिधानात् । न संसीदन्ति जगत्कुशलमूलसंधारणविवर्धनतया ॥ अथ खलु गोपा शाक्यकन्या एतमेव विमोक्षमुखनयं संदर्शयन्ती बुद्धाधिष्ठानेन 15 तस्यां वेलायामिमा गाथा अभाषत संबोधिचर्याचरणप्रयुक्तं पश्यन्ति सत्त्वाः खलु येऽग्रसत्त्वम् । प्रसन्नचित्ताः प्रतिघातिनो वा ब्रजन्ति ते संग्रहमस्य सर्वे ॥९० ॥ यावन्ति हि क्षेत्रशते रजांसि स्मरामि कल्पानिह तावतोऽहम् । मेरुप्रभाभूद्वरलोकधातु__ स्ततः परं व्यूहसनाम्नि कल्पे ॥ ९१॥ षड्विंशतिः कोट्ययुतानि तस्मिन् 25 सहस्रसंख्या ह्यभवन्मुनीनाम् । तेषामभूद्यश्चरमो मुनीन्द्रो ___धर्मध्वजो नाम जगत्प्रदीपः ॥ ९२ ॥ श्रीतेजनामा नृपतिस्तदानीं तस्मिन् मुनीन्द्रे परिनिर्वृतेऽथ । जम्बुध्वजेऽस्मिन्निहतारिचक्रः . सोऽव्याहताज्ञः परमेश्वरोऽभूत् ॥ ९३ ॥ 8427 B 170 १B संबोधिसत्त्वं चरण
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy