________________
S 365
[ ४१.४६
भासप्राप्तानां सर्वज्ञज्ञानावरणपर्वतविकिरणप्रयुक्तानां सर्वधर्मस्वभावलक्षणप्रतिविद्धानां सर्वक्लेशावरणान्धकारविधमनप्रयुक्तानां सर्वधर्मप्रविचारणाभिनिर्हारकुशलमूलानां निरात्मधर्मज्ञानप्रत्यक्षाणां सर्वसत्त्वपरिपाक विनया प्रतिप्रस्रब्धानामद्वयधर्मधातुनयसुप्रतिविद्धानां सर्ववाक्पथनयसागरानुप्रसृतबुद्धीनां चर्यां ज्ञातुं गुणसमुद्रान् वा अवतर्तुं ज्ञानविक्रमो परिज्ञातुं 5 चिन्तावस्थानं वा प्रज्ञातुं समाधिवशिता वाधिगन्तुं विमोक्षविकुर्वितं वा समाज्ञातुम् ॥
10
૨૮૪
गण्डव्यूहसूत्रम् ।
गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे लुम्बिनीवने सुतेजोमण्डलरतिश्रीर्नाम लुम्बिनीवनदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले ? कथमालोक करा भवन्ति लोकानाम् ? कथमपरान्तकोटीगतान् कल्पान् बोधिसत्त्वसंचारिकां चरन्तो न परिखिद्यन्ते ?
अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्कृत्य प्राञ्जलीकृतोऽवलोकयमानः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया अन्तिकात्प्रक्रान्तः ॥ ३९॥