SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ -४१.४६] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा। २८३ अनेकरूपासनसंनिषण्णा नानाविकुर्वामुपदर्शयन्तः ॥ ३९ ॥ अनन्तवर्णैरपि चात्मभावैः सहस्रशः सर्वदिशः स्फरन्ति । अनन्तमध्यानि विदर्शयन्ति रूपाणि चाप्येकसमुच्छ्रयं ते ॥ ४० ॥ एकैकतो रोममुखादसंख्यान् मुञ्चन्ति ते रश्मिमहासमुद्रान् । क्लेशाग्निदाहं शमयन्ति चैव सर्वप्रजानां विविधैरुपायैः ॥ ४१ ॥ यत्र स्थिता निर्मितकायमेघा नेकैकरोम्णः प्रविमुञ्चमानाः। तैरद्भुतैः सर्वदिशः स्फरित्वा धर्माम्बुवषैर्विनयन्ति सत्त्वान् ॥ ४२ ॥ नयप्रवेशोऽयमचिन्त्यरूपः समाश्रयः सर्वजिनात्मजानाम् । यत्र प्रतिष्ठाय चरन्ति चाँ क्षेत्रेषु सर्वेष्वपरान्तकल्पान् ॥ ४३ ॥ यथाशयं धर्ममुदीरयन्तः ते दृष्टिजालाद्विनिवर्तयन्ति । खर्गापवर्णैर्विनिवेश्य सत्त्वान् सर्वज्ञभूमिं प्रविदर्शयन्ति ॥ ४४ ॥ लोकोपपत्तिष्वखिलाखचिन्त्यै रनन्तवणैरपि चात्मभावैः। यथाशयं धर्ममुदाहरन्ति ते सर्वसत्त्वप्रतिभासरूपाः ॥ ४५ ॥ एतांस्तथान्यानपि चाप्रमेयान् क्षेत्राणवाणुप्रतिमानचिन्त्यान् । • अच्छम्भि ते वर्णमहासमुद्रान् विमोक्षमेतं प्रतिलभ्य शान्तम् ॥ ४६ ॥ एतमहं कुलपुत्र सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वलोकगतिसमतिक्रान्तानां बोधिसत्त्वानां सर्वलोकोपपत्तिप्रति B146 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy