________________
8314
२४० गण्डन्यूहसूत्रम् ।
[३९.१ - अथ खलु सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता तस्यां वेलायामेतमेव मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत
गम्भीर दुर्दशु विमोक्ष जिनात्मजानां
आकाशलक्षणसमन्ततलप्रवेशः । त्र्यध्वस्थितानवतरन्ति जिनानशेपान्
यैर्धर्मधातुप्रसरां च अनन्तमध्यान् ॥ १॥ संभारसंभवविमोक्षनयाननन्तान्
प्रतिलाभ धर्मत अचिन्तिय अप्रमेयान् । संवर्धनामपि समन्त असङ्गवेगम्
अवगाह मैत्रिपु त्रियध्वनयष्पथेषु ॥२॥ इति बुद्धक्षेत्रपरिवर्तरजःसमानां
कल्पानमादिगतमास पुरा हि क्षेत्रम् । धर्मार्चिमेघनगरः शिरिलोकधातु
कल्पो बभूव विमलाभ महाप्रभश्च ॥ ३ ॥ तत्रैव कल्पि जिनवंशि अनूपछिन्ने
बुद्धाः सुमेरुपरमाणुसमा उपन्नाः। धर्मसमुद्रप्रभगर्जितराज बुद्धः
पूर्वंगमः प्रथमकल्पिक आसि तेपाम् ॥ ४ ॥ जिनु धर्ममेघनगराभप्रदीपराजो
यः सर्वपश्चिम अभूत्सुगतान तेषाम् । ते सर्वि पूजित मया उपसंक्रमित्वा
धर्मश्च तेष मि श्रुतो जनयित्व प्रीतिम् ॥ ५ ॥ दृष्टो मया प्रथम काञ्चनवर्णरश्मिः
धर्मः समुद्रप्रभगर्जितघोषराजः । द्वात्रिंशल्लक्षणविचित्रितु मेरुकल्पो
दृष्ट्वा च मे मतिरभूत्सुगतो भवेयम् ॥ ६॥ सहदर्शनेन मम तस्य तथागतस्य
प्रादुर्बभूव बलवजिनचित्तमाघम् । सर्वज्ञताप्रसरसंभवप्रत्ययेभिः __ आकाशधातुविमलं तथताखभावम् ॥ ७ ॥ येन त्रियध्वगत सर्वि स्फुटाः समन्तात् • बुद्धाश्च तत्सुतसमुद्रवृता अशेषाः ।