________________
312
B 128
-३९.०]
३९ सर्वनगररक्षासंभवतेजाश्रीः । तस्यानन्तरं लक्षणरुचिरसुपुष्पिताङ्गो नाम तथागत आरागितः । तस्यानन्तरं लोकेन्द्रप्रवर- प्रभघोषो नाम तथागत आरागितः । तस्यानन्तरं सर्वधर्मसमाधिप्रभघोपो नाम तथागत आरागितः । तस्यानन्तरं द्वारस्वरप्रभूतकोशो नाम तथागत आरागितः । तस्यानन्तरं धर्मज्वलनार्चिःसागरघोषो नाम तथागत आरागितः। तस्यानन्तरं त्र्यध्वलक्षणप्रतिभासतेजो नाम तथागत आरागितः । तस्यानन्तरं धमर्मण्डलश्रीशिखराभप्रभो नाम तथागत आरागितः । । तस्यानन्तरं धर्मधातुसिंहप्रभो नाम तथागत आरागितः । तस्यानन्तरं सर्वसमाधिसागरावभाससिंहो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानप्रभासो नाम तथागत आरागितः । तस्यानन्तरं समन्तप्रज्ञाभधर्मनगरप्रदीपो नाम तथागत आरागितः ॥
इति हि कुलपुत्र एतद्बुद्धशतं प्रमुखं कृत्वा तस्मिन् विमलाभे कल्पे सुमेरुपरमाणुरजःसमास्तथागता उत्पन्ना अभूवन् । तेषां खलु पुनः कुलपुत्र सुमेरुपरमाणुरजःसमानां 10 तथागतानां सर्वपश्चिमो धर्मधातुनगराभज्ञानप्रदीपराजो नाम तथागतोऽभूत् । ते खलु मया कुलपुत्र सुमेरुपरमाणुरजःसमास्तथागताः सर्वधर्मसागरनिर्घोपप्रभराजपूर्वगमा धर्मधातुनगराभज्ञानप्रदीपराजपश्चिमाः सर्वे पूजिताः । सर्वेषां च मे तथागतानामुपस्थानं कृतम् । सर्वेषां च धर्मदेशना श्रुता । सर्वेषां च तेषामहं तथागतानां शासने प्रव्रजिता । सर्वेषां च मे तेषां तथागतानां शासनं संधारितम् । सर्वेषां च मया तेषां तथागतानामन्तिकादेष मनोज्ञ-15 रुतगम्भीरविकुर्वितप्रवेशो बोधिसत्त्वविमोक्षो विविधैः प्रतिलाभनयैः प्रतिलब्धः । सर्वेपां च मया तेषां तथागतानामन्तिकादनन्तमध्याः सत्त्वसागराः परिपाचिताः । ततोऽग्वुिद्धक्षेत्रपरमाणुरजःसमेषु यावन्तस्तथागता उत्पन्नाः, सर्वे ते मया तथागता धर्मप्रतिपत्त्या पूजिताः । सा खलु पुनरहं कुलपुत्र तत उपादाय संसाररात्रिगतेषु सत्त्वेषु अज्ञाननिद्राप्रसुप्तेषु जागर्मि, चित्तनगरं चैषां परिपालयामि, त्रैधातुकनगराच्चैनानुच्चाल्य सर्वज्ञताधर्मनगरे प्रतिष्ठापयामि ॥ 20
एतमहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं वोधिसत्त्वविमोक्षं लोकसंभिन्नप्रलाप- विनिवर्तनमद्वयभणिताविनियोजनं सत्यप्रतिष्ठापनपर्यवसानं जानामि । किं मया शक्यं बोधिसत्त्वानामविप्रतिबद्धसर्ववाक्पथस्वभावज्ञानानां प्रतिचित्तक्षणं सर्वधर्माभिसंबोधिवशवर्तिनां सर्वसत्त्ववचनरुतघोषसागरावतीर्णानां सर्वमन्त्रसमुद्रसंस्कारकुशलानां सर्वधर्मसंख्यानामसमुद्रनयविधिज्ञानां सर्वधर्मसमवसरणधारणीसमुद्रवशवर्तिनां सर्वसत्त्वयथाशयधर्ममेघा- 25 भिनिर्हारकुशलानां सर्वसत्त्वपरिपाकविनयचर्यापर्यवसानानां चयाँ ज्ञातुं गुणान् वा वक्तुम् , सर्वसत्त्वसंग्रहप्रतिपत्तिर्वा ज्ञातुम् , अनुत्तरो बोधिसत्त्वकर्मसमारम्भप्रयोगो वा बोधिसत्त्वसूक्ष्मज्ञानानुगमो वा बोधिसत्त्वधर्मनिधानकोशविभक्तवृषभिता बोधिसत्त्वकर्मसांकथ्यसिंहासनाक्रमणं वा ज्ञातुम् । तत्कस्य हेतोः? तथा हि ते सत्पुरुषाः सर्वधर्मभूमिमण्डलधारण्यवक्रान्ताः ॥
गच्छ कुलपुत्र, इयमिहेव भगवतो वैरोचनस्य पादमूले सर्ववृक्षप्रफुल्लनसुखसंवासा नाम 30 रात्रिदेवता संनिपतिता, या ममानन्तरं संनिषण्णा । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वाः सर्वज्ञतायां शिक्षन्ते, कथं च प्रतिपद्यमानाः सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयन्ति ॥
13