________________
S 205
B 81
१५६
गण्डव्यूहसूत्रम् ।
[ २८.०लभन्ते । केचिन्निमीलनमात्रेण रागविरागतामनुप्राप्नुवन्ति, बुद्धविषयालोकं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिदालिङ्गनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्संग्रहापरित्यागगर्भं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचित्परिचुम्बनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्पुण्यकोशसंस्पर्शनं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । ये केचित्सत्त्वा ऽ ममान्तिकमुपसंक्रामन्ति, सर्वांस्तानहमत्रैव विरागकोटीगते असङ्गसर्वज्ञताभूम्यभिमुखे बोधिसत्त्वविमोक्ष प्रतिष्ठापयामि ||
आह - कुत्र त्वया आर्ये कुशलमूलमवरोपितम् कीदृशं च कर्मोपचितम्, यस्या - स्तवेयमीदृशी संपत् ? आह——— स्मरामि कुलपुत्र, अतीतेऽध्वनि अत्युच्चगामी नाम तथागतोऽर्हन् सम्यक्सबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः 10 शास्ता देवमनुष्याणां बुद्धो भगवान् । तस्य कुलपुत्र अत्युच्च गामिनस्तथागतस्य सत्त्वानामनुकम्पार्थं सुमुखां नाम राजधानीं प्रविशतः इन्द्रकीलमाक्रामतः सर्वं तन्नगरं प्राकम्पत । विपुलविस्तीर्णं च अनेकरत्नमयं संस्थितमभूत् अनेकरत्नप्रभाव्यूहं विविधरत्नपुष्पाभिकीर्णं नानादिव्यतूर्यप्रमुक्तनिर्घोषम् । उदाराप्रमेयदेवकायमेघप्रच्छन्नं च अन्तरीक्षं संस्थितमभूत् । अहं च कुलपुत्र तेन समयेन सुमतिर्नाम श्रेष्ठभार्या अभूवम् । ततो मे बुद्ध15 प्रातिहार्यसंचोदितया खामिना सार्धं प्रधावित्वा तस्य तथागतस्य वीथीमुखमुपसंक्रान्तस्य उदारप्रसादजातया एका रत्नकाकणिः प्रतिपादिता । तदा च मञ्जुश्री कुमारभूतस्तस्य भगवतोऽत्युच्चगामिनस्तथागतस्योपस्थानकोऽभूत् । तेनाहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता । एतमहं कुलपुत्र विरागकोटीगतं वोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यमनन्तोपायज्ञानकौशलप्रतिष्ठितानां वोधिसत्त्वानां विपुलाक्षयपुण्यकोशानामपराजितज्ञान20 विषयाणां चर्यां ज्ञातुम् गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे शुभपारंगमं नाम नगरम् । तत्र वेष्ठिलो नाम गृहपतिश्चन्दनपीठं तथागतचैत्यं पूजयति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको वसुमित्राया भागवत्याः पादौ शिरसाभिवन्द्य 25 वसुमित्रां भागवतीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वसुमित्राया भागवत्या अन्तिकात् प्रक्रान्तः ॥ २६ ॥