________________
S 202
२८ वसुमित्रा। अथ खलु सुधनः श्रेष्ठिदारकस्तया महाप्रज्ञाविद्युतावभासितचित्तः, तं सर्वज्ञज्ञानालोकं निध्यायन् , तं धर्मताखभाववलावभासं समनुपश्यमानः, सर्वसत्त्वरतविज्ञप्तिकोशं धारणीनयं दृढीकुर्वन् , तं सर्वतथागतधर्मचक्रसंधारणं धारणीनयं विपुलीकुर्वन् , तं सर्वजगच्छरणं 5 महाकरुणावलमुपस्तम्भयन् , तं सर्वधर्मनयालोकमुखसमुत्थानं सर्वज्ञतावेगं प्रत्यवेक्षमाणः, तां विपुलधर्मधातुमण्डलस्फरणप्रणिधिपरिशुद्धिमनुवर्तमानः, तं सर्वधर्मदिगवभासज्ञानालोकमुत्तापयमानः, तत्सर्वधर्मदशदिग्लोकधातुव्यूहस्फरणमभिज्ञानबलं निर्हरन् , तं सर्वबोधिसत्त्वकर्मस्मृत्युपादानारम्भनित्तीरणप्रणिधि परिपूरयन् अनुपूर्वेण येन दुर्गे जनपदे रत्नव्यूह नगरं तेनोपसंक्रान्तो वसुमित्रां भागवती परिमार्गन् । तत्र ये पुरुपा वसुमित्राया भागवल्या 10 गुणानभिज्ञा ज्ञानगोचराविधिज्ञाश्च, तेषामेतदभवत्-किमस्य एवं शान्तदान्तेन्द्रियस्य एवं
संप्रजानस्य एवमभ्रान्तस्य एवमविक्षिप्तमानसस्य एवं युगमात्रप्रेक्षिणः एवं वेदनाभिरपर्यादत्तचित्तस्य एवमनिमित्तग्राहिणः सर्वरूपगतेषु उक्षिप्तचक्षुषः एवमव्यग्रमानसस्य गम्भीरचेष्टस्याभिरूपस्य सागरकल्पस्य अक्षोभ्यानवलीनचित्तस्य वसुमित्रया भागवत्या कार्यम् ? न हीदृशा रागरता भवन्ति, न विपर्यस्तचित्ताः। नेदृशानामशुभसंज्ञा समुदाचरति । नेदृशाः 15 कामदासा भवन्ति । नेदृशाः स्त्रीवशगा भवन्ति । नेदृशा मारगोचरे चरन्ति । नेदशा मारविषयं निषेवन्ते । नेदृशाः कामपङ्के संसीदन्ति । नेदृशा मारपाशैर्वध्यन्ते । नाकार्यकारिणो भवन्ति । ये पुनर्वसुमित्राया भागवल्या गुणविशेषाभिज्ञा ज्ञानगोचरप्रत्यक्षा वा, ते एवमाड:साधु साधु कुलपुत्र, सुलधास्ते लाभाः, यस्त्वं वसुमित्रां भागवतीं परिप्रष्टव्यां मन्यसे । नियमेन त्वं बुद्धत्वं प्रार्थयसे । नियमेन त्वं सर्वसत्त्वप्रतिशरणमात्मानं कर्तुकामः । नियमेन 20 त्वं सर्वसत्त्वानां रागशल्यमुद्धर्तुकामः । नियमेन त्वं शुभसंज्ञां विकरितुकामः । एषा कुलपुत्र वसुमित्रा भागवती नगरराङ्गाटकस्योत्तरेण स्वगृहे तिष्ठति ।।
अथ खलु सुधनः श्रेष्ठिदारक इदं वचनमुपश्रुत्य तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन वसुमित्राया भागवत्या निवेशनम् , तेनोपसंक्रम्य तद्गृहमद्राक्षीद्विपुलं
च विस्तीर्णं च दशरत्नप्राकारपरिक्षिप्तं दशरत्नतालपतिपरिवृतम् । दशभिः परिखाभिर्गन्धो25 दकाभिर्दिव्यरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाभिः अष्टाङ्गोपेतवारिपरिपूर्णामिः
कनकवालिकासंस्तीर्णतलाभिः मनोहरगन्धललितसुगन्धीकृतोदकाभिः अनेकरत्नप्राकारोपशोभिताभिः समन्तादनुपरिक्षिप्तम् , सर्वरत्नमयभवनविमानकूटागारसुविभक्तोद्विद्धनि!हतोरणगवाक्षजालार्धचन्द्रसिंहपञ्जरविचित्रज्योतिर्ध्वजमणिरत्नोज्ज्वलिततेजसम् , असंख्येयविविधरत्नप्राकारोपशोभितं वैडूर्यखचितरत्नहारसंस्कृततलं सर्वदिव्यशुभगन्धवासितोपैचारं महाकालागरु90 धूपधूपितसुगन्धं सर्वानुलेपन विलिप्तोपचारं सर्वरत्नखोटकरचितप्राकारं विविधरत्नप्रत्यर्पित
१B भगवती throughout. २ B °परागं.