________________
8193
२७ सिंहविजृम्भिता। अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन श्रोणापरान्ते जनपदे कलिङ्गवनं नाम नगरन् , तेनोपजगाम । उपेत्य सिंहविजृम्भितां नाम भिक्षुणी पर्येषमाणः प्रतिसत्त्वं परिपृच्छन् यतो यतः पर्यटति, तेन तेनैव अनेकानि कुमारशतानि अनेकानि 5 कुमारिकाशतानि रथ्याचत्वरशृङ्गाटकेभ्यः संभूय अनुवघ्नन्ति स्म । अनेकानि च पुरुपशतानि अनेकानि च स्त्रीशतान्यारोचयामासुः-एषा कुलपुत्र सिंहविजृम्भिता भिक्षुणी इहैव कलिङ्गबने नगरे जयप्रभानुप्रदत्ते सूर्यप्रभे महोद्याने प्रतिवसति अपरिमाणानां सत्त्वानामय धर्म प्रकाशयमाना ॥
अथ खल सुधनः श्रेष्ठिदारको येन तत्सूर्यप्रभं महोद्यानं तेनोपसंक्रम्य समन्तादनु10 विचरन् अनुविलोकयन् अद्राक्षीत्तस्मिन् महोद्याने चन्द्रोद्गतान् नाम वृक्षान् कूटागारसं
छन्नानचिर्वाचिनिर्भासान् समन्ताद्योजनमाभया स्फरमाणान् , संप्रच्छदनामांश्च पत्रवृक्षान् छत्राकारान् संस्थानपर्णच्छदनान् नीलवैडूर्यवर्णपयोदावभासान् , कुसुमकोशनामांश्च पुष्पवृक्षान् हिमवत्पर्वतराजरमणीयविचित्रसंस्थानान् नानावर्णाक्षयकुसुमौघप्रवर्षणान् त्रिदशपुरोपशोमनपारिजातककोविदारसदृशान् , सदापकाननुपमखादुफलनिचितनामांश्च सुफल15 वृक्षान् सुवर्णमेरुशिखरसंस्थानान् सदाफलसंपन्नान् , वैरोचनकोशनाम्नश्च मणिराजवृक्षाननु
पममणिरत्नराजसंस्थानान् दिव्यरत्ननग्मालाभरणचिन्ताराजमणिरत्नप्रमुक्तकोशसमृद्धिधरान् असंख्येयवर्णमणिरत्नाकारान्, प्रसादननामांश्च वनवृक्षान् नानावर्णदिव्यरत्नवस्त्रकोशप्रमुक्तप्रलम्बोपशोभितान् , प्रमोदननाम्नश्च वाद्यवृक्षान् दिव्यातिरेकतूर्यमनोज्ञमधुरनिर्घोषान् , समन्तशुभव्यूहनाम्नश्च गन्धवृक्षान् सर्वदिगप्रतिहतसर्वाकारमनोज्ञगन्धाभिप्रमोदनानद्राक्षीत् । 20 उत्ससरस्तडागपुष्किरिणीश्च सप्तरत्नेष्टकानिचिताश्चतुर्दिक्षु विभक्तरत्नसोपानाः कालानुसारि
चन्दनपरिदिग्धविविधरत्नवेदिकापरिवृताः, नीलवैडूर्यमणिराजकृततलसंस्थानाः, जाम्बूनदकनकवालिकास्तीर्णतलाः, मनोज्ञदिव्यगन्धाष्टाङ्गोपेतवारिपरिपूर्णाः, विचित्रवर्णदिव्यगन्ध
स्पर्शरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाः, दिव्यातिरेकमनोज्ञरूपनानाशकुनिगणमधुर___ निर्घोषनिकूजिताः, विविधदिव्यरत्नसुरुचिरद्रुमपतिपरिक्षेपोपशोमिताः । सर्वेषु च तेषु 26 नानारतवृक्षमूलेषु विचित्रमनोज्ञरूपाणि रत्नसिंहासनानि प्रज्ञप्तानि अचिन्त्यानेकविविधरत्नव्यूहानि, नानादिव्यरनवस्त्रप्रज्ञप्तोपचाराणि, सर्वाकारदिव्यगन्धधूपनिऽपितानि, दिव्यातिक्रान्तरत्नपट्टाभिप्रलम्बितविचित्ररत्नवितानविततानि, नानारत्नविचित्रजाम्बूनदकनकजालसंछन्नानि, रत्नकिङ्किणीजालमनोज्ञमधुरनिर्घोषाणि, अनेकदिव्यरत्नासनशतसहस्रपरिवाराण्य
पश्यत् । स कचिद्रनवृक्षमूले रत्नपद्मगर्भसिंहासनं प्रज्ञप्तमपश्यत् । कचिद्गन्धराजमणि30 रत्नपामगर्भसिंहासनम्, कचिन्नागव्यूहमणिराजपनगर्भसिंहासनम्, कचिद्रत्नसिंहस्कन्धमणिराजपद्मगर्भसिंहासनम् , कचिद्वैरोचनमणिराजपद्मगर्भसिंहासनम् , कचिद्दिग्विरोचन
Som. प्रतिसत.
B79