SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४६ 8191 B78 गण्डब्यूहसूत्रम् । [२६.०सर्वमारभवनेषु सर्वकामधातुषु देवनिकायान्तर्गतेषु सर्वदेवभवनेषु सर्वनागलोकेषु सर्वनागभवनेपु, सर्वयक्षलोकेषु सर्वयक्षभवनेषु, सर्वराक्षसलोकेषु सर्वराक्षसभवनेषु, सर्वकुम्भाण्डलोकेषु सर्वकुम्भाण्डभवनेषु, सर्वप्रेतलोकेषु सर्वप्रेतभवनेषु, सर्वगन्धर्वलोकेषु सर्वगन्धर्वभवनेषु, सर्वासुरलोकेषु सर्वासुरभवनेषु, सर्वगरुडलोकेषु सर्वगरुडभवनेषु, सर्वकिन्नरलोकेषु सर्वकिन्नर5 भवनेषु, सर्वमहोरगलोकेषु सर्वमहोरगभवनेषु, सर्वमनुष्यलोकेषु सर्वमनुष्यभवनेषु, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सर्वकामधात्वन्तर्गतासु सर्वसत्त्वगतिषु धर्म देशयामि । अधर्म प्रतिजहामि । विवादं प्रशमयामि । विग्रहं व्यावर्तयामि । कलहं व्युपशमयामि । युद्धं निवारयामि । रणनुपशमयामि । धैरमुपरमयामि । बन्धनानि च्छिनमि। चारकाणि भिनद्मि। भयानि विनिवर्तयामि । अकुशलकर्माभिसंस्कारान् समुच्छिनमि। प्राणिवधात् सत्त्वान् विनि10 वारयामि । अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापादभिध्याया व्यापादात् मिथ्यादृष्टेः सत्त्वान्निवारयामि । सर्वकार्येभ्यः सत्त्वान् विनिवारयामि । सर्वधर्मकुशलधर्मक्रियास्वनुवर्तयामि । सर्वसत्त्वान् सर्वशिल्पानि शिक्षयामि । लोकहितावहानि सर्वशास्त्राणि द्योतयामि, प्रकल्पयामि, प्रकाशयामि, प्रभावयामि लोकप्रहर्षणतायै। सत्त्वपरिपाकाय सर्वपापण्डाननुवर्तयामि । उत्तरिज्ञानविशेषसूचनताय सर्वदृष्टिगतविनिवर्तनतायै 15 सर्वबुद्धधर्मारोचनतायै यावद्ब्रह्मलोकेऽपि सर्वरूपधातुकान् देवानभिभूय धर्म देशयामि । यथा चेह त्रिताहस्रमहासाहले लोकधातौ, तथा दशसु दिक्षु दशानभिलाप्यवुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमेषु लोकधातुषु धर्म देशयामि। बुद्धधर्मान् देशयामि । बोधिसत्त्वधर्मान् श्रावकधर्मान् प्रत्येकबुद्धधर्मान् देशयामि । नरकान् देशयामि । नरकगामिनी प्रतिपदं देशयामि । नैरयिकसत्त्वकारणां देशयामि । तिर्यग्योनि देशयामि । तिर्यग्योनिगति20 संभेदं तियग्योनिगतिगामिनी प्रतिपदं तिर्यग्योन्युपपत्तिदुःखं देशयामि । यमलोकं देशयामि, यमलोकगामिनी प्रतिपदं यमलोकदुःखं देशयामि । स्वर्गलोकं देशयामि, स्वर्गलोकगामिनी प्रतिपदं स्वर्गलोकरत्युपचारपरिभोगं देशयामि । मनुष्यलोकं देशयामि, मनुष्यलोकगतिगामिनी प्रतिपदं मनुष्यलोकसुखदुःखानुभववैचित्र्यं देशयामि। इति हि कुलपुत्र लोकधर्मं देशयामि। लोकसमुदयं लोकास्तंगमनं लोकादीनवं लोकनिःसरणमपि देशयामि, यदुत बोधिसत्त्वमार्गसंप्रकाशनतायै संसारदोषविनिवर्तनतायै सर्वज्ञतागुणसंदर्शनतायै भवगतिसंमोहदुःखसंग्रशमनतायै अनावरणधर्मतारोचनतायै लोकप्रवृत्तिक्रियापरिदीपनतायै सर्वलोकप्रवृत्तिसुखदुःखसूचनतायै सर्वजगप्रतिष्ठासंज्ञागतविभावनतायै अनालयतथागतधर्माभिद्योतनतायै सर्वकर्मक्लेशचक्रव्यावर्तनतायै तथागतधर्मचक्रप्रवर्तनसूचनतायै धर्मं देशयामि । एतमहं कुलपुत्र सर्वगामिनीबोधिसत्त्वचर्याविशुद्धिमुखमवभासप्रतिष्ठितान भिसंस्कारविमलव्यूहं प्रजा30 नामि । किं मया शक्यं सर्वाभिज्ञानां बोधिसत्त्वानां सर्वक्षेत्रतलमायागतज्ञानशरीरस्फरणानां समन्तचक्षुर्ज्ञानभूमिप्रतिलब्धानां सर्ववाक्पथरुतविज्ञप्तिपरमश्रोत्राणां त्र्यध्वस्फरणधर्ममुखालोकवशिताप्राप्तानां सर्वधर्मसमवसरणज्ञानवशिताधिपतिवीरपुरुषाणामचिन्त्या 8192
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy