________________
S 178
१३६ गण्डव्यूहसूत्रम् ।
[२२.०__ अथ खलु अचलोपासिका यथानिपण्णैव दुर्योधनज्ञानगर्भवोधिसत्त्वविमोक्षमुखपूर्वगमानि सर्वधर्मपर्यटचपरिखेदव्यूहसमाधिमुखपूर्वगमानि अमोघमण्डलव्यूहसमाविमुखपूर्वगमानि दशवलज्ञानमण्डलाभिनुग्वसमाधिमुखपूर्वगमानि बुद्धवंशाक्षयकोशसमाधिविमोक्षमुखपूर्वंगमानि
च दश समाधिमुखशतसहन्नाणि व्यवलोकयति अनुविचारयति अनुसरति निध्यपयति । 5 समनन्तरतमापन्नायां च अचलायामुपासिकायाम् , अपश्यत् सुधनः श्रेष्ठिदारको दशसु दिक्ष दशबुद्धक्षेत्रानभिलाप्यपरमाणुरजःसमान् लोकधातून् पडिकारं प्रकम्पमानान् , परिशुद्धवैडूर्यमयान् संस्थितान् । एकैकस्मिंश्च लोकधातौ कोटीशते चातुर्महाद्वीपकानां लोकधातूनां कोटीशतं तथागतानामपश्यत् । कांश्चित्तुपितवरभवनगतान् , कांश्चिद् यावत्परिनिर्वायमाणानपश्यत् यदुत अनावरणत्वात्परिशुद्धवैडूर्यमयलोकधातूनाम् । एकैकं च तथागतं 10 सर्वधर्मधातुस्फरणरश्मिजालप्रभामण्डलम् , एकैकं च तथागतं सुविभक्तपर्षन्मण्डलसमुद्रमपश्यत् । एकैस्य च तथागतस्य सर्वधर्मचक्रोद्योतनं सर्वसत्त्वश्रोत्रविज्ञपनं खरमण्डलमश्रौषीत् ॥
अथ खल्वचलोपासिका ततः समाधेर्युत्थाय सुधनं श्रेष्ठिदारकमेवमाह-दृष्टं ते कुलपुत्र, श्रुतं विज्ञातम् ? आह—दृष्टमार्ये, श्रुतं विज्ञातम् । आह-एवमहं कुलपुत्र, दृढसमादानायां बोधिसत्त्वर्यायामनुशिक्षमाणा सर्वधर्मपर्येष्टयपरिखेदव्यूहसमाधिसमापन्ना 15 दुर्योधनज्ञानगर्भवोधिसत्त्वविमोक्षमुखप्रतिष्ठिता सर्वधर्मसमताभूमिधारण्यनुगमेन सर्वधर्मतलोद्योतनप्रतिभानज्ञानालोककौशल्येन सर्वसत्त्वान् सुभाषितेन संतोषयामि । किं मया शक्यमचिन्त्याप्रमेयगुणसमन्वागतानां वोधिसत्त्वानां चर्चा ज्ञातुं गुणान् वा वक्तुम् ? ये ते द्विजर्षभा इव गगनतलेऽनिकेतचारिणः । ये ते महागरुडेन्द्रा इव सत्त्वसागरमवगाहन्ते
परिपक्कबोधिसत्त्वोद्धरणतायै । ये ते वणिज इव सर्वज्ञतारतद्वीपेऽनुविचरन्ति दशवलज्ञानरत्ना20 भिकाङ्क्षिणः। ये ते वलवत्कैवर्ता इव संसारसागरेऽनुविचरन्ति रुचिरधर्मचक्रमण्डलजालहस्ताः
तृष्णोद्भवसत्त्वपरिपाचनाभ्युद्धरणतायै । ये तेऽसुरेन्द्रा इव त्रिभुवनपुरं स्फरित्वा विचरन्ति क्लेशासुरसंक्षोभोद्वृत्तसंशमनतायै । ये ते दिनकरमण्डलमिव धर्मधातुगगनतले समुदागच्छन्ति सत्त्वतृष्णासलिलक्केशपङ्कोच्छोषणतायै । ये ते पूर्णचन्द्रमण्डलमिव ज्ञाननभस्युदागच्छन्ति
विनेयमन कुमुदविवोधनतायै । ये ते धरणितलमिवानुनयप्रतिघोन्नामावनामविषमे समा लोके $ 179_25 संतिष्ठन्ते सर्वजगत्कुशलेन्द्रियाङ्करप्ररोहणविवर्धनतायै। ये ते मारुत इवासङ्गसर्वदिग्विचारिणः
सर्वसत्त्वक्लेशदृष्टिदुमलतावनारामोन्मूलनतायै । ये ते चक्रवर्तिन इव लोके विचरन्ति चतुःसंग्रहवस्तुपरिष्कारोपकरणसर्वजगत्संग्रहणतायै । गच्छ कुलपुत्र, इहैव दक्षिणापथेऽमिततोसले जनपदे तोसलं नाम नगरम् । तत्र सर्वगामी नाम परिव्राजकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ 30 अथ खलु सुधनः श्रेष्ठिदारकोऽचलाया उपासिकायाः पादौ शिरसाभिवन्ध
अचलामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अचलाया उपासिकाया अन्तिका प्रक्रान्तः ॥२०॥