________________
२३२ गण्डव्यूहसूत्रम् ।
[२२.०महाजनकाय उपदर्शयति-एपा कुलपुत्र अचलोपासिका खनिवेशने मातापितृसंभागिनी कुमारभूता खज्ञातिगणपरिवृता महतो जनकायस्य धर्म देशयति ।।
अथ खलु मुधनः श्रेष्टिदारको महाप्रीतिप्रसादप्रामोद्यपरिस्फुटचेता येन अचलाया उपासिकाया निवेशनं तेनोपजगाम । उपत्य अचलाया उपासिकाया निवेशनद्वारे स्थितो3 ऽपश्यत् सर्वं तं निवेशनं सुवर्णवर्णया आभया स्फुटमवभासितं कायचित्तप्रह्लादिन्या । समनन्तरस्पृष्टस्य च सुधनन्य श्रेष्ठिदारकस्य तया प्रभया, सर्ववेदयितैश्वर्यध्वजसमाधिप्रमुखानि शान्तिप्रदेशसमाधिप्रमुखानि सर्वजगद्धितसमाधिप्रमुखानि समन्तचक्षुरुपेक्षावतीसमाधिप्रमुखानि तथागतकोशसमाधिप्रमुखानि पञ्चमात्राणि समाधिमुखशतान्यवक्रान्तानि
संभूतानि सुक्ष्माणि मृदूनि । तद्यथापि नाम तदिवसार्धक्रान्तस्य गर्भस्य विज्ञानम् , एवं तानि 10 समाधिमुखानि सूक्ष्माणि मृदून्याजातानि । तथारूपं च गन्धमजिघ्रत् यो न देवानां न देवकन्यानां न नागानां न नागकन्यानां न यक्षाणां न यक्षकन्यानां न गन्धर्वाणां न गन्धर्वकन्यानां नासुगणां नासुरकन्यानां न गरुडानां न गरुडकन्यानां न किन्नराणां न किन्नरकन्यानां न महोगाणां न महोरगकन्यानां न मनुष्याणां न मनुष्यकन्यानाम् । न सा नी दशदिशि लोके संविद्यते, या तस्या रूपेण समा, कुतः पुनरुत्तरि । न स 15 वर्णावभासोऽस्ति दशदिशि लोके स्थापयित्वा तथागतवर्णावभासम् , अभिषेकप्राप्तबोधिसत्त्ववर्णावभासं च, यस्तस्या वर्णावभासेन समः, कुतः पुनरुत्तरि । नास्ति तदात्मभावारोहपरिणाहसंस्थानं दशदिशि लोके स्थापयित्वा तथागतात्मभावारोहपरिणाहसंस्थानम् , अभिषेकप्राप्तबोधिसत्त्वात्मभावारोहपरिणाहसंस्थानं च, यत्तस्या आत्मभावारोहपरिणाहसंस्थानेन
समन् , कुतः पुनरुत्तरि । नास्ति स प्रभाव्यूहो दशदिशि लोके स्थापयित्वा तथागत20 प्रभाव्यूहम् , अभिषेकप्राप्तबोधिसत्त्वचर्याप्रभाव्यूहं च, यस्तस्याः प्रभाव्यूहेन समः, कुतः पुनरुत्तरि । नास्ति स गन्धो दशदिशि लोके देवभवनेषु वा नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनेषु वा यस्तस्या मुखकोशविसृतगन्धेन समः, कुतः पुनरुत्तरि । नास्ति स भवनव्यूहपरिभोगो दशदिशि लोके स्थापयित्वा तथागतपरिभोगम् , अभिषेकप्राप्तबोधिसत्त्वपरिभोगं च, यस्तस्या भवनव्यूहपरिभोगेन समः, कुतः पुनरुत्तरि । नास्ति सा 25 परिवारसंपत् दशदिशि लोके स्थापयित्वा तथागतपरिवारसंपदम् , अभिषेकप्राप्तबोधिसत्त्वपरिवारसंपदं च, या तस्याः परिवारसंपदा समा, कुतः पुनरुत्तरि । न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यः समर्थोऽचलामुपासिकां रागचित्तेन प्रेक्षितुम् । न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यः अचलाया उपासिकायाः सहदर्शनेन क्लेशो न व्युपशमं गच्छेत् । तद्यथापि नाम दश शतसहस्रवशवर्तिनो महाब्रह्माणः कामावचराः 30 लेशान्न समुदश्चरन्ति, एवमेव सहदर्शनेन अचलाया उपासिकायाः सत्त्वानां क्लेशा न समुदा
S 173 B70
-
१8 °सङ्गिनी.