________________
8148
२८ रनचूडः। अथ ख्नु सुधनः श्रेछिदारकः तत्पुण्यतोयं संभावयन्, तत्पुण्यक्षेत्रं संपश्यन् , नयनरं परिशोधयन् , तत्युग्यतीर्थमवगाहयमानः, तत्पुण्यकोशं विवृण्वन् , तत्पुण्यनिधिनकले कयन् , तन्युयनाडलं परिशोधयन् , तत्पुण्यस्कन्धं समाददद् , तत्पुण्यवलं संजन्तयन् , तयुज्यत्र विवधयन् , अनुपूर्वण येन सिंहपोतं नगरं तेनोपसंक्रम्य रत्नचूडं धनश्रटिनं करिनार्गनायोऽदीदन्तापणमध्यगतम् । तस्य पादौ शिरसाभिवन्ध प्रदक्षिणीकृल पुरतः प्राञ्जलिः स्थिवा एवनाह-मया आर्य अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पाद्वितन् । न च जानानि कार्य बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । तताधु में आर्यो बोधिसत्त्वमार्गमुपदिशतु, येनाहं मार्गेण सर्वज्ञतायां निर्यायाम् ॥ 10 अब खलु रखचूडो धर्मश्रेष्टी सुधनं श्रेष्टिदारकं पाणौ गृहीत्वा येन खं निवेशनं तेनोपजन्य तगृहनुपदश्य एवमाह-प्रेक्षस कुलपुत्र मम निवेशनम् । सोऽनुविलोकयन् अद्राक्षीत्तद्गृहं शुद्धं प्रभाखरं जाम्बूनदसुवर्णमयं विपुलमुद्विद्धं रूप्यप्राकारपरिक्षिप्तं स्फटिकप्रातादनुकृतोपशोभितं वैडूर्यकूटशतसहस्रप्रतिमण्डितं मुसारगल्वसमुच्छ्रितस्तम्भं सुप्रज्ञप्तं
लोहितनुक्कामयसिंहासनं ज्योतीरसमणिरत्नसिंहध्वजसमुछूितं वैरोचनमणिरतवितानविततं 15 चिन्तामणिविचित्रहेमजालसंछन्नमसंख्येयमणिरत्नप्रतिमण्डितव्यूहं शीतजलाश्मगर्भमयपुष्करिणीसमुपेतं सर्वरत्नद्रुमपरिवृतं विपुलं विस्तीर्ण दशपुरमुद्विद्धमष्टद्वारम् । स तद्गृहं प्रविश्य समन्तादनुविलोकयति स्म । म प्रथमे पुरेऽन्नपान विधिपरित्यागमद्राक्षीत् । द्वितीये पुरे सर्ववस्त्रविधिपरित्यागम् । तृतीये पुरे सर्वरत्नाभरणालंकारपरित्यागम् । चतुर्थे पुरेऽन्तःपुरपरिभोगरतिमहापृथिवीकल्याणकन्यारत्नपरित्यागमद्राक्षीत् । पञ्चमे पुरे पश्चमीभूमिप्रतिष्ठि20 तानां वोधिसत्त्वानां धर्मसंगीतिरतिप्रयुक्तानां लोकहितसुखचित्तचेष्टानां सर्वशास्त्राण्यभिनिहरियतां धारणीनयं च समाधिसमुद्रं च समाधिव्युत्थानं च समाधिव्यवचारं च ज्ञानालोकं च अभिनिारयतां संनिपातमद्राक्षीत् । षष्ठे पुरे प्रज्ञापारमिताविहारप्रतिलब्धानां गम्भीरप्रज्ञानां सर्वधर्मप्रशान्ताभिज्ञानां भूमिसमाधिधारणीमुखगर्भसमन्तमुखनिर्यातानाम् अनावरणगोचराणाम्
अद्वयसमुदाचाराणां धर्मसंगीतिं कुर्वतां प्रज्ञापारमितापरिवर्तनमनुसरतां विभजतामुत्तानीकुर्वतां 25 बोधिसत्त्वानां संनिपातमद्राक्षीत् इमानि प्रज्ञापारमितामुखानि संगायताम् यदुत शान्तिगर्भ नाम प्रज्ञापारमितामुखम् , सर्वजगज्ज्ञानसुविभक्तं च नाम प्रज्ञापारमितामुखम् , अचलावत च नाम प्रज्ञापारमितामुखम् , विरजःप्रभासं च नाम प्रज्ञापारमितामुखम् , दुर्योधनगर्भ च नाम प्रज्ञापारमितामुखम् , जगद्रोचनामण्डलं च नाम प्रज्ञापारमितामुखम् ,
अनुगमनयमण्डलं च नाम प्रज्ञापारमितामुखम् , सागरगर्भं च नाम प्रज्ञापारमितामुखम् , 30 समन्तचक्षुरुपेक्षाप्रतिलब्धं च नाम प्रज्ञापारमितामुखम् , अक्षयकोशानुगमं च नाम प्रज्ञापारमितामुखम् , सर्वधर्मनयसागरं च नाम प्रज्ञापारमितामुखम् , सर्वजगत्सागरानुगमं च नाम प्रज्ञापारमितामुखम् , असङ्गप्रतिभानं च नाम प्रज्ञापारमितामुखम् , धर्ममेघाव.
8149