SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ - ९.० ] २ सारध्वजः । विपन्नयानपात्रान् सत्त्वानाश्वासयमानान् भीतान् सत्त्वान् परित्रायमाणान् कुशलमूलशब्दमनुश्रावयमाणान् पापविनिवृत्तिशब्दमुदीरयमाणान् कुशलधर्मसमादापने सत्त्वान् विनियोजयमानान् अर्थचर्यायां सत्त्वान् प्रतिष्ठापयमानान् प्रीतिवेगं संजनयमानान् प्रियवादितासंग्रहवस्तून्युदीरयमाणान् समानार्थतां च लोकस्योपदर्शयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत् ॥ ६९ १ B दण्डकमण्डलुगृहीतान् for दण्डकाष्ठकुण्डिका. २ S प्रवृत्ति for शरीर . adds दुष्टचित्तान्निवार्य प्रसादयमानान्न. नाभिमण्डलात् सर्वसत्त्वान् सत्त्व जगच्छरीरसंस्थानान् अजिनचीवरवल्कलधरान् Sushकुण्डगृहीतान् नानारूपान् कल्पसंस्थानान् प्रशान्तेर्यापथान् ऋपिगणान्निश्चरित्वा उपर्यन्तरीक्षे बुद्धवर्णानुदीरयमानान् धर्मशब्दं संश्रावयमाणान् बुद्धघोषं निश्चास्यमाणान् बोधिसत्त्वसंघ संदर्शयमानान् ब्रह्मचर्यं संप्रवर्णयमानान् गुप्तेन्द्रियतायां सत्त्वान्नियोजयमानान् निःस्वभावार्थं प्ररूपयमाणान् ज्ञानार्थे लोकं प्रतिष्ठापयमानान् लौकिकशास्त्र - 10 विधिं प्रणयमानान् सर्वज्ञज्ञाननिर्याणमार्गविधिं प्रदर्शयमानान् अनुपूर्वक्रियायां सत्त्वान् प्रतिष्टापयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत् ॥ द्वाभ्यां पार्श्वाभ्यां सर्वलोकप्रवृत्तिसंख्या अचिन्त्यानेकशरीरंसंस्थाननागकन्या निश्चरित्वा अचिन्त्यं नागविकुर्वितं संदर्शयमानाः अचिन्त्यसुगन्धमेघालंकारगगनतलमधिष्ठमाना अचिन्त्यपुष्पमेघालंकारैः सर्वगगन तलमलंकुर्वतीः अचिन्त्यमाल्यमेघालंकारैः सर्वमाकाशधातुं व्यूहयमाना अचिन्त्यरत्नछत्र मेघालंकारैः सर्वधर्मधातुं संछादयमाना अचिन्त्यरत्नध्वजमेघालंकारम् अचिन्त्यरत्नपताकामेघालंकारम् अचिन्त्यरत्नपताकावित्तरत्नाभरणमेघवर्षालंकारम् अचिन्त्यानन्तमहामणिरत्नमेघप्रवर्षणालंकारम् अचिन्त्यरत्नहारविचित्रकुसुनमेघप्रवर्षणालंकारम् अचिन्त्यरत्नासनपर्यङ्कनिषण्णबोधिसत्त्वबुद्धधर्ममेघप्रवर्षणालंकारम् अचिन्त्यदिव्यरत्नाभरणमेघाप्सरोगणधर्मसंगीतिरुत घोषमेघप्रवर्षणालंकारम् अचिन्त्यमुक्ताजालालंकृतरत्नपद्मोर्च्चकेसरसर्वरत्नराजचूर्णमेघवर्षबिकिरणालंकारम्, अचिन्त्यरत्नमकुटमेघसर्वमणिरत्नविभूषितानन्तरश्मिमेघप्रवर्षणालंकारम्, अचिन्त्यदेवकायमेघपुष्पमाल्यच्छत्रध्वजपताकालंकारम्, अचिन्त्याप्सरोमेघोन्नतकाय कृताञ्जलिपुटसुवर्णपुष्पविकिरणप्रमुक्तपुटकोशसर्वतथागतगुणवर्णस्तुतिमेघनिगर्जितप्रवर्षणालंकारं गगनतलमधितिष्ठमानाः सर्वरत्नवर्णैर्गन्धकूटमेघैरुदारधूपपटलमेधैश्च सर्वतथागतपर्षन्मण्डलानि संछादयमानाः सर्वलोकधातुप्रसरानलं कुर्वतीः 25 सर्वसत्त्वानि प्रहर्षयमाणाः सर्वबुद्धान् पूजयमानाः क्षणे क्षणे सर्वधर्मधातुं स्फरमाणाः सुधनः श्रेष्ठदारकोऽपश्यत् ॥ उरस्तः श्रीवत्सादसंख्येयबुद्धक्षेत्रपरमाणुरजः समानसुरेन्द्रान्निश्चरित्वा अचिन्त्यासुरमायाविकुर्वितानि प्रदर्शयमानान् महाजलधरान् संक्षोभयमाणान् लोकधातुशतसहस्राणि संप्रकम्पयमानान् सर्वशैलेन्द्रराजान् संघट्टयमानान् सर्वदेवभवनानि संप्रकम्पयमानान् 30 5 ३ B 15 20 S 86 887
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy