SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ $ 85 B 34 ९ ध्वजः । अयं सुधनः श्रेष्टिकारकनांने मुक्तकन्य श्रेटिनोऽनुशासनीमनुविचिन्तयन्, स्टोनिनोऽचिन्त्यं बोधिसत्त्वविमोक्षमनुस्मरन्, अचिन्त्यं बोधिसच्चज्ञानालोकमनुस्मरन् अचिन्त्यं धर्मधातुप्रवेशावतारमनुगच्छन्, अचिन्त्यं बोधिसत्त्वसमव5 सुरणनयनवतरन्, अचिन्नं तथागतविकुर्वितमनुपश्यन्, अचिन्त्यं बुद्धक्षेत्रसमवसरणमधिमुच्यनानः, अचिन्त्यं बुद्धाधिठानव्यूहन्नार्जन्, अचिन्त्यं वोधिसत्त्वसमाधिविमोक्षव्यवस्थानवृपभितामत्रकरूपयन्, अचिन्त्यां लोकधातुभेदानावरणतामवगाहमानः, तस्यामचिन्त्यबोधिसत्त्वकर्मदृद्वाभ्याशयतायां प्रतिपद्यनानः, तदचिन्त्यवोधिसत्त्वकर्मप्रणिधान स्रोतोऽनुकुर्वन्, अनुपूर्वेण येन निलस्करणं जन्बूद्वीपशीर तेनोपसंक्रम्य सारध्वजं भिक्षु परिमार्गयन् अपश्यदन्यतर1) मिन्नाश्रमे चक्रनकोळ्यां निपण्णं समाधिसमापन्नमनुश्वसन्तमनुप्रश्वसन्तमनिञ्जमानममन्यमानसृजुकायं प्रतिमुखस्मृतिमचिन्त्येन समाधिविकुर्वितेन विकुर्वमाणं वामदक्षिणाभ्यामूर्ध्वं वा अचिन्त्याप्रमाणानन्तकाय मवलोकितसूधीनमनेकवर्णकायाप्रमेयवर्णविमात्रतां चित्तक्षणे चित्तक्षणे संदर्शयमानन् | तस्य तथा समापन्नस्य गम्भीरस्य शान्तस्य निरुन्मिञ्जितस्य निरालम्वस्य रोमाञ्चोकायस्य सर्वरोमनुखेभ्योऽचिन्त्यं बोधिसत्त्वविमोक्षविकुर्वितं प्रवर्तयमान15 मपश्यत् । येन विमोक्षनुखविकुर्वितेन स चित्तक्षणे चित्तक्षणे सर्वधर्मधातुं स्फरति अनन्तनानाविकुर्वितविकल्पः सर्वसत्त्वपरिपाकाय सर्वतथागतपूजाप्रयोगाय सर्वबुद्धक्षेत्रपरिशोधनाय सर्वसत्त्वदुःखस्कन्धनिवर्तनाय सर्वदुर्गतिमार्ग समुच्छेदाय सर्वसत्त्वसुगतिद्वारविवरणाय सर्वसत्त्वक्लेशसंतापप्रशमनाय सर्वसत्त्वाज्ञानावरणविकिरणाय सर्वसत्त्वसर्वज्ञता प्रतिष्ठापनाय ॥ तस्याचःक्रमतलाभ्यामसंख्येयवुद्धक्षेत्रपरमाणुरजः समान् श्रेष्ठिगणान् नानोपस्थान2) प्रत्युपस्थानान् सर्वलोकधातुपर्यापन्न श्रेष्टिसदृशरूपातिरेकविपयप्रावारान् नानाभूषणविभूषितशरीरान् विचित्रमौलिचूडामणिर्मकुटधरान् दारकविम्वपरिवारान् निश्चरमाणानपश्यत् । ब्राह्मणगृहपतींश्च सर्वान्नपानविधिभिः सर्वसाङ्गोपचारैः सर्वाभरणैः सर्ववस्त्रैः सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्वविलेपनैः सर्वकामोपचारः सर्वरत्नैः सर्वायतनैः सर्वभाजनविधिभिः सर्वोपकरणविधिभिः दरिद्रान् सत्त्वान् संगृह्यमाणान् दुःखितं जगदाश्वासयमानान् सत्त्व26 मनांसि परितोपयमानान् सत्त्वाशयान् विशोधयमानान् सत्त्वान् वोधौ परिपाचयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत् ॥ जानुमण्डलाभ्यां निश्चरित्वा क्षत्रियपण्डितरूपान् ब्राह्मणपण्डितरूपान् लोकपण्डितरूपान् विविधशिल्पपण्डितरूपान् मनुष्यगतिपण्डितरूपान् लौकिकलोकोत्तरक्रियाविधि - ज्ञानपटुपण्डितरूपान् लोकाचार्यसंमतपण्डितरूपान् अनेकाकारकल्पान् अनेकाकारसंस्था30 नव्यूहान् मनोज्ञानि वचस्युदीरयतो दुर्मनसः सत्त्वान् प्रहर्षमाणान् धर्मधनपरिहीणान् सत्त्वाननुगृह्यमाणान् दुःखितान् सत्त्वान् सुखयमानान् विनिपतितान् सत्त्वानभ्युद्धरमाणान् B.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy