________________
५८]
चित्रसेनपद्मावतीचरित्रम
[५११-५१६
प्रवृत्तिं रचयामासुः पल्यङ्कस्य प्रमोदतः ॥५११॥ यदि पल्यङ्करत्नस्य प्रभावः प्रवरी भवेत् । अनेकानि च तीर्थानि न क्रियन्तेधुगा कथम् ॥५१२।। बभाषे भूपतिर्देवि नान्यथा तस्य भाषितम् । दण्डः परीक्षितः पूर्वमधुनायं परीक्ष्यते ॥५१३॥ समग्रामपि सामग्री पूजोपकरणादिकाम् । समादाय सदानन्दात् पल्यङ्के ते स्थितास्त्रयः ॥५१४॥ अष्टापदाभिधं तीर्थ स्मृत्वा हुङ्कारमात्रतः। उत्पपात स"पल्यङ्को वेगती गगनाङ्गण ॥५१५।। पुण्यात्मानत्रयोप्येते पल्यङ्कोपरिसंस्थिताः । पश्यन्तो वसुधाश्चर्य' प्राप्ता अष्टापदाचलं ॥५१६॥ तत्रैकयोजनायामं चतुद्वारं सतोरणम् । गव्यूतत्रितयोत्तुङ्गं भरतेश्वरकारितम् ॥५१७॥ शातकुम्भमयं कुम्भसुन्दरं- ध्वजराजितम् । प्रासादं जगदीशानां ददृशुस्ते त्रयो मुदा ॥१८॥ स्वर्गमण्डपसङ्काशा मण्डपास्तत्पुरो वराः । तदन्तः पीठिका देवच्छन्दके वेदिकास्तथा ॥५१ ।। नित्याहत्प्रतिमा रनमय्यो मञ्जुलपीठिकाः ।
1 Z वासुधा० ।
2 Z कुम्भं सुन्दरं।