________________
३४]
चित्रसेनपद्मावतीचरित्रम
[ २६१-३००
-
भाजने वीरसेनस्य मुक्ताः सुन्दरमोदकाः ॥२६१।। कुमारे सह मित्रेणोपविष्टेप्येकभाजने । कुमारभाजने मुक्ती मोदकौ तु तथा पुनः ॥२६२॥ मोदकौ दृष्टमात्रौ तु हस्तलाघवविद्यया। गृहीती मन्त्रिपुत्रेण परौ मुक्तौ स्वपार्श्वतः ॥२६३॥ मोदकानन्तरं शालिमुद्दालिमनोहरम् । सद्यस्कघृतसंयुक्तं . स्फुरद्दध्यादिगोरसम् ।।२६४।। जनकेन समं भुक्त्वा शुचीभूय समुत्थितः । चित्रसेनकुमारोसौ मानसे मुमुद भृशम् ।।२६५॥ ततश्च तिलकं कृत्वा दत्वा ताम्बूलमुत्तमम् । परिधाप्याम्बरालङ्कारादिकं प्रेषिती गृहे ॥२६६।। पद्मावती स्नुषा स्फूर्जदलङ्ककाराम्बरादिना । श्वश्रसन्मानिता कामं समायाता निजे गृहे ।।२९७|| देवानुकूल्यतः पुंसामथवा पुण्ययोगतः। सुधायते विषं सर्पः पुष्पमालायते रयात् ।।२६८|| ययप्यस्ति धराधीशो विमलाविप्रतारितः । तथापि चित्रसेने च वात्सल्यप्रेमतत्परः ॥२६॥ कियत्यपि दिने राजाचिन्तयन्नकमञ्जसा । भङ्गजे मारणोपायमचिन्तयमहं हहा ॥३०॥