________________
१२.]
चित्रसेनपद्मावतीचरित्रम्
[81-8E
-
तेन पाञ्चालिकारूपं निर्मितं सागरेण च । । पद्मावत्यनुसारेण तद्रूपं नास्ति कुत्रचित् ।।११।। पाश्चाल्याः किल वृत्तान्तं श्रुत्वा भूधवनन्दनः' । मूच्छीमवाप्य तत्कालं पपात पृथिवीतले ॥१२॥ शीतोपचारतः सावधाने भूधवनन्दने'। रत्नसारः स दुःखात्मा पुनः पप्रच्छ तं मुनिम् ।।१३।। भगवन् मत्सखा चासौ पाञ्चालीरूपदर्शनात्। मूर्च्छया कि पपातेति सन्देहो विद्यते मम ॥१४॥ सत्कृपालो कृपां कृत्वा केवलज्ञानभास्कर । सन्देहं मम चित्तस्य निरारम्भ निराकुरु ॥१५॥ ततोवीचन्मुनिस्वामी सुधामधुरया गिरा । शृणु वत्स यथातथ्यं वृत्तान्तं सुहृदस्तव ॥६६॥ तथास्मिन भरते क्षेत्रे देशे द्रविडनामनि । चम्पापुर्याः समासन्ने चम्पकाभिधकाननम् ।।६७॥ चम्पकाशोकपुन्नागनारङ्गागुरुचन्दनैः। माकन्दकदलीनालिकेरराजादनैर्युतम् ॥६८।। जम्बुजम्बीरखुर्जूरवीजपूरद्रुमाञ्चितम् । सालतालतमालागनक्तमालतरुश्रितम् ||६||
-
-
-
1Z भूधरन।