SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Catalogue of Palm-Leaj Mss. n the क्लप्तोपतापनिधनं विधिनोपधानाभिख्यं तपः शिवसुखाय विधाय धैर्यात् । मालाधिरोपणमकारयदात्मनो या द्वेपद्विपो विजयसिंहगुरोः करेण ।। ८ ॥ त्रपामणिक्षोणिरसावसूत सुतान् दिगीशान् स्फुटमष्टसंख्यान् । ये पुण्यकाष्टाश्रितचेतसोऽपि चित्रं न संक्रंदनयोगमापुः ।। ९ ।। भोगिभोगायितभुजस्तंभः कुलगृहं श्रियः । आद्यस्तत्राभिरामश्री. ब्रह्मदेवोऽभवत् सुतः ॥ १० ॥ अभिरामगुणग्रामद्रुमारामवसुंधरा । दयिता पोइणिस्तस्य बभूव प्रियसंवरा ।। ११ ।। वासनावासितस्वान्तश्चन्द्रावत्यां महत्तमे । यश्चैत्ये कारयामास बिम्बं वीरजिनेशितु. ॥ १२ ॥ या पद्मदेवसूरेगुरोः कृते शुभमति. स्ववित्तेन । चरितं त्रिषष्टिमध्यादलेखयत् प्रथमतीर्थकृतः ॥ १३ ॥ द्वैतीयीको बोहडिरभवत्तनुजो गुणवजनिकेतम् । एतस्यावीति कुटुंबिनी च चंचद्गुणकदंबा ॥ १४ ॥ स्वकीयवंशे भुवनावतंसे ध्वजानुकारं दधदंगजन्मा । सद्धर्मनिर्मापणदत्तवित्तचित्तस्तयोबिल्हणसंज्ञ आद्यः ॥ १५ ॥ सती सतीसंहतिशीर्षरत्न तस्य प्रिया जैनपदाब्जभृगी । वभूव दानादिगुणप्रधाना सन्मानसा रूपिणिनामधेया ॥ १६ ॥ द्वितीय आल्हणश्चाभूद्भाग्यसौभाग्यजन्मभूः । अनन्यजनसामान्यसौजन्यमणिरोहणः ॥ १७ ॥ जल्हणस्तृतीयः सूनुश्चतुर्थो मल्हणाभिधः । समभून्मोहिनी चापि सुता, स्वजनमोहिनी ॥ १८ ॥ जल्हणस्य तृतीयस्य नाऊ जाया शुभाशया । वीरपालो वरदेवो वैरिसिंहः सुतास्तयोः ॥ १९ ॥ वहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च । संप्राप्य नाम लेभे सूरि श्रीपद्मदेव इति ॥ २० ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy