SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 1 Santinatha Jain Bhandara Cambay श्रीधातुर्लेखशाली त्रिदशपथमहालेखिनीदंडगाली सायं सायं किलायं सितकरखटिनीपात्रमादाय कालः । यावद् द्यौपट्टिकायामुडुलिपिविपुलं हस्तलेखं विधत्ते तावद्वावच्यमाना कृतिभिरतितरा वर्त्तता वृत्तिरेषा ॥ १७ ॥ छ ॥ इत्याचार्य श्रीबालचन्द्रविरचिताया विवेकमजरीवृत्तौ भावनाविवरणं नाम चतुर्थः परिमल ॥ छ ॥ ॥ छ ॥ * ॥ छ ॥ उद्दंडशैलमयदंडधृतस्य धात्रीछत्रस्य वारिधिदुकूलवृत्तस्य मौलौ । स्वर्णाचलः कलशतामयमेति यावत्तावज्जय कल्यतादिह जैत्रसिंहः ॥ १ ॥ छ ॥ समाप्ता चेयं विवेकमखरीप्रकरणवृत्तिः ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ भद्रमस्तु ० ॥ ॐ नमः श्रीवीतरागाय || यन्नाममंत्रवशवतोऽपि शरीरभाजा नश्यन्ति सामजघटा इव दुष्कृतौघाः । पाढायलाछनमृगेन्द्रभुवा भियेव देव स व शिवसुखानि तनोतु वीरः ॥ १ ॥ विस्तीर्णोऽयं क्षितिरुह इव श्लाघ्यमूलप्रतिष्ठः प्राग्वाटाख्यो गरिमगुणवानन्वयोऽस्ति प्रधान । लक्ष्मीर्यस्मिन्नवकिसलय श्रेणिशोभा विभर्त्ति 279 ज्योत्स्नाकारा विकचकुसुमस्तोमसाम्यं च कीर्त्ति ॥ २ ॥ आद्यस्तत्रानवद्यश्री. सीद: श्रीद इवाभवत् । विश्राणनेन यश्चित्रं तत्याज न कुलीनताम् ॥ ३ ॥ वीरदेव्यभिधया शुभलीला तस्य शीलपरिपालनशीला । देहिनी कमला विमलाऽभूद्वेहिनी सुकृतनिर्मलबुद्धेः ॥ ४ ॥ चन्द्र इव पूर्णदेवः सुतस्तयो' सुगुणकिरणसंपूर्णः । दोषाश्रितो न चित्रं कलंकिता न भजते यस्तु ॥ ५ । । लोकोपकारकरणाद्विजयाद्यसिंहसूरेरुपास्तिजननाज्जिनबिम्बक्लृप्तेः पुत्रद्वयव्रतविधापनतश्च चक्रे य सार्थक द्रविणवायुरपि स्वकीयम् ॥ ६ ॥ तस्य च प्रियतमाऽजनि रम्या वाल्हिविः शशिसमुज्ज्वलशीला । वीतरागचरणार्चनचित्ता क्षेत्रसप्तकवितीर्णसुवित्ता ॥ ७ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy