SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 278 Catalogue of Palt-Leaf Mss 1m the येनोपदेशकंदल्याहानप्रकरणच्छलात् । कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ॥ ८ ॥ आसडस्य मृडस्येव गौरी-गंगे वभूवतु । पृथिवीदेवि जैतल्लदेव्यौ द्वे तस्य वल्लभे ॥ ९ ॥ जैतल्लदेव्यां तनयावभूता द्वावेतयोराजडनामधेयः । ज्येष्ठ कनिष्ठः कलिकालकुंभिद्विड्जैत्रसिह किल जैत्रसिंहः ॥ १० ॥ अरिसिंह इति पृथिवीदेव्यां करपुष्करश्रवद्दान । गुरुगिरिपरिणयकर्मा गज इव कलभोंगज समभूत् ।। ११ ॥ पुत्रे राजडनाम्नि बालकदलीकाडोपमे स्वःपुरी याते बालसरस्वतीति विदिते तच्छोकमूढाशयः । संबुद्धोऽभयदेवसूरिसुगुरोथैरेव वाक्यैरसौ तैरेवेदमसूत्रयत् प्रकरण श्रीआसडः सत्कवि ॥ १२ ॥ एतामासडिजैत्रसिंहसचिवेनात्यर्थमभ्यर्थितो वृत्तिं श्रीहरिभद्रसूरिसुगुरो शिप्यप्रशस्यावधि । वाग्देवीप्रतिपन्नसूनुरकृत श्रीवालचंद्राख्यया __ विख्यातोऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मज ॥ १३ ॥ नागेन्द्रगच्छार्णवपार्वणेन्दुरेता बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥ १४ ॥ देवानन्दमुनीन्दुगच्छगगनालंकारशीतयुते. शिष्य श्रीकनकप्रभाभिधगुरोस्पैविद्यचूडामणे । वाग्देवीसुतवालचन्द्रसुकवेराप्तप्रतिष्ठः सुधी रेतस्या सहकारिकारणमभूत् प्रद्युम्नसूरिः पुनः ॥ १५ ॥ उत्सूत्रं यदसूत्रि सूत्रविकलेनालक्षण लक्षण न्यूनेन श्लथरीतिरीतिरिपुणा व्यर्थ हतार्थेन च । किंचित् कापि मया वच प्रलपितं स्वच्छदमच्छंदसा तच्छोध्यं विबुधै. परैरपि परं कृत्वा प्रसादं मयि ॥ १६ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy