________________
Sánlınálha Jain Bhandāra Cambay
277
-
अन्त:-- अथ प्रगस्तिगाथामाह
सिरिभिल्लमालनिम्मलकुलसंभवकड्यरायतणएण ।
इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि ॥ १४४ ॥ व्याख्या
एतद्धि विवेकमजरीनामधेयं प्रकरणं आसडेन रचितं रचनामानीतम् । किंविशिष्टेन । सिरिभिल्लमाल त्ति । निर्मल निर्दूषणं च तत् कुलं च निर्मलकुलं, श्रिया उपलक्षितं तत् भिल्लमालाख्य निर्मलकुलं च, तस्मात् संभवतीति श्रीभिल्लमालकुलसंभवः । स चासौ कटुकराजस्तस्य तनय. पुत्रो य स तथा तेन । कदेत्याह । वसुजलहिदिणेसवरिसम्भि । वसवोऽष्टौ जलधयश्चत्वारो दिनेशा द्वादश तैर्निर्मितं वर्ष वसुजलधिदिनेगवर्ष तत्रेति संक्षेपार्थः। व्यासार्थस्तूच्यते ॥ छ ।
श्रीभिल्लमालाभिधया प्रसिद्धो वंशोऽवतंसो जगतीतलस्य । समस्ति पाथोधिरिवाच्युतश्रीसरस्वतीवासनिवास एक. ।। १ ।। तस्मिन्नवो रजनिजानिरिवाजनिष्ट
भासा पटु कटुकराज इति प्रतीतः । यो जैनदर्शनमयो भवमूर्ध्नि चक्रे
लीलास्पद पदमखंडितवृत्त एव ॥ २ ॥ सुधाशो रोहिणीवास्य बुधपुत्रप्रसुः प्रिया । बभूवाऽनलदेवीति सतीजनमतल्लिका ॥ ३ ॥ तयोरजनिषाता द्वौ सुतावासडजासडौ । सत्पथ न व्यलंघेता धुर्यों धर्मरथस्य यौ ॥ ४ ॥ आसडः कालिदासस्य यशोदीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥ ५ ॥ श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । राजसभ्याः कविसभाभंगार इति यं जगुः ॥ ६ ॥ जिनस्तोत्र-स्तुतीः पद्य-गद्यबंधैरनेकशः । चक्रे यः क्रूरकर्मा हि जागुलीमंत्रसन्निभाः ॥ ७ ॥