________________
276
S
Catalogue of Palm-Leaf Mss. in the
मर्यादाऽपि कति प्रियनिम्नगोऽसौ कुग्राहवानतिगभीरगिरान्वितोऽपि
हित्वा समुद्रमिति कंवरगाद् यदकं
स श्रीजिनो वृजिनमस्यतु शंखलक्ष्मा || ३ || निर्मेधमेघपथमेचकदेहधामा
वामासुतः स भवताद् भवता विभूत्यै । यन्मौलिसीम्नि रुचि मंडलसप्तसप्ते'
सप्तापि सप्तय इवाहिफणाः स्फुरंति || ४ ||
ते वः शिश्रियमपश्चिमतीर्थनाथपादारविन्दनखचंद्रमसो दिशन्तु ।
कामं कलंकविकला. सकलाकसिंह -
भीप्रोषितोदरमृगा इव ये विभान्ति ॥ ५ ॥
नम्रासुरत्रिदशकोटिकिरीटकोटिशाणानिशातपदपद्मनखेन्दुकान्ता । कान्तानि वः शिवसुखानि दिशन्तु शश्व -
दन्येऽपि तीर्थपतयोऽजितनाथमुख्याः || ६ |
मोहांधकारधिक्कारदीपिका मुक्तिवर्त्मनि । विवेकमंजरीवृत्तिरिय निर्वत्र्त्यते मया ॥ ७ ॥ छ ॥
इह हि महितगुणमहिमकुमुदहिमकरस्य मकरकेतुबाणवित्रस्तसमस्तजनपरित्राणवज्रपंजरस्य गूर्जरवसुंधरावदनमंडलीनगर मण्डन श्रीमहावीरचैत्यप्रतिष्ठाकृत. सुकृतचरितचमत्कृतदेवेन्द्रस्य श्रीदेवेन्द्रगुरुस्वहस्तस्वपद विनिवेशितस्य भुवनभद्रंकरस्य श्रीभद्रेश्वरसूरिगुरो. पट्टनभस्तलालंकरणकिरणमालिना प्रतिवादिदैत्यदमनसौरिणा श्रीमदभयदेवसूरिणा समुपदिष्टसकलसिद्धान्तसारः संसारवैराग्यरसप्रसरपुष्टचेता शिष्टसमयसरसिजवनीविकाशंनैकरवि. श्रीमदासडकविः कविसभाशृंगार इत्यपरनामधेय. श्रेयः प्रवृत्तिसुभगम्भावुकभविकजनचक्रप्रमोदसंपादनच्छेकरुचिर्विवैकमंजरी प्रकरणकरणमभीष्टदेवतानमस्कारपुरःसरं प्रतिजानीते यथा ॥ छ ॥ ग्रं. २१ ॥
सिद्धिपुरसत्थवाहं वीरं नमिऊण चरमजिणनाह | सवणसुहारससरियं वच्छामि विवेगमंजरियं ॥ १ ॥