________________
281
Sântınātha Jain Bhandāra Cambay
चतुर्थ आमणश्चारुगुणमाणिक्यमंडितः। - - - पचमो वरदेवाख्यः सत्सख्यविहितोद्यमः ॥ २१ ॥ षष्ठः पंडितसंहतिचतुर. स्फूर्जद्यशा यशोवीरः । आचार्यपदे लेभे श्रीपरमानन्द इत्यभिधाम् ॥ २२ ॥ सप्तमो वीरचन्द्राख्यो यतोऽनूनगुणावलिः । समभूजिनचंद्राह्व. प्रकृष्टवपुरष्टमः ।। २३ ।। बोहडिजा विल्हणस्य च पुत्रचतुष्टयमनूनगुणरूपम् । रूपिणिकुक्षिसरोवरकलहंसनिभं विवेकयुतम् ॥ २४ ॥ आसापाला कीर्तिवल्लयालवालः सीधूनामा भूरिधामा द्वितीयः । तार्तीयीकोऽभूजगत्सिहसंज्ञस्तुर्यः सूनुः पद्मसिंहाभिधानः ॥ २५॥ वीरीति पुत्री सुगुणै. पवित्रा मनोहरा सा हरिणीसुनेत्रा। अभूच्छुभाचारपवित्रपात्रा सद्रूपलावण्यविशुद्धगात्रा ॥ २६ ॥ जग्राह य पुत्र इह तृतीयः कामप्रदा संयमराज्यलक्ष्मीम् । क्षिप्रं तथा सूरिपदं च लेभे सुदुर्लभं पुण्यवताऽपि पुंसा ॥ २७ ॥ प्रथमस्याऽऽसपालस्य खेतुकाकुक्षिसंभवाः। . सजनोऽभयसिंहाख्यस्तेजाकः सहजा सुता ।। २८ ।। सीधूकाख्यद्वितीयस्य सोहगेत्यभवद्वधूः । अगण्यपुण्यदाक्षिण्यलावण्यादिगुणान्विता ॥ २९ ॥ तुर्यस्य पद्मसिंहस्य वालूनाम्नी प्रियाऽभवत् । सुतस्तयोः समुत्पन्नो नागपालाभिधः सुधीः ।। ३० ॥
किंच
रूपं बलं च विभवो विषयाभिषंगो नीरोगता लवणिमा प्रियसंप्रयोगः । वातावधूतपटचञ्चलमेव सर्व विज्ञाय धर्मनिपुणै विभिर्विभाव्यम् ॥ ३१ ॥ अंगुष्ठमात्रं यो विम्बं कारयत्यर्हता बुधः । सिद्धिनारीपरिरंभभवं स लभते सुखम् ॥ ३२ ॥ न मनःपर्ययमवधिन केवलज्ञानमत्र नैवास्ति । पुस्तकलेखनमेतत्तद्यष्टिदृष्टिहीनानाम् ।। ३३ ॥ ।
II