________________
Santinatha Jain Bhanḍāra Cambav
किंच
मारावल्ल्या अल्लकश्रेष्ठिवर्यो मुक्त्वा स्वीयं धाम हेतो. कुतश्चित् । आयातोऽसावर्बुदाथः प्रदेशे तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥ १५ ॥
1
कासहूदधाम्नि निजं धर्म्य धाम प्रवर्त्तितं येन । पोपधशाला सच्छ्रावकादिधर्मार्थमत्यर्थम् ॥ १६ ॥ आजन्माऽपि जिनेश्वरम्य सदने बिंबे जिनाभ्यर्चने तीर्थानामभिवदने जनमतव्यालेखनेऽलंकृतौ । श्रीमत्सूरि-महत्तरापढ- जनप्रवाजनादौ शुभ
धर्मार्थ व्ययतो धनं सफलता यस्यागमद्धीमत. ॥ १७ ॥ स सिद्धनागः ... सुलब्धजन्मा सदाकृतिर्धर्म विशुद्धकर्मा । पुत्रोऽभवत्तस्य जनप्रसिद्धः पुण्यानुभावाच्च सदा समृद्ध ॥ १८ ॥ तस्मादपि दास्थित्यात् कुतोऽपि धवलक्कके समायातः । श्रेष्ठी स सिद्धनामा तत्रापि जने गुणैः प्रथितः ॥ १९ ॥ अन्यच्च येन कारितमतिरम्यं भव्यजनमनोहारि । सीमंधरजिनविवं रमणीये मोढचैत्यगृहे ॥ २० ॥
त्यागी भोगी देवगुर्वादिभक्तो जैने धर्मे प्रेमरागानुरक्तः ! बार्द्धक्येऽभूदेक उद्योतनाहः पुत्रस्तस्य त्यक्तदुष्टद्विजिहः ॥ २१ ॥ श्रीनेमिचंद्रसूरेर्वाक्यात्तदनु स्वशिष्यभणनाच्च । उद्योतनसच्छ्रावकविशेपसद्भक्तिवचनाच्च ।
तत्रैव बृहद्गच्छे रत्नाकरसन्निभे प्रसूतेन । प्राकृतमणिकल्पेन श्रुतगुरुवहुमानसहितेन ॥ २३ ॥
श्रीपदसंगतनाम्ना श्रीमज्जिनचंद्रसूरिशिष्येण । रचिताऽऽमदेवमुनिपेन वृत्तिरेषा स्वबोधेन ॥ २४ ॥
व्याख्याप्रज्ञप्ताविव लब्धवरायामिहापि सद्वृत्तौ । श्रुतिसुखदवर्णरुचिरा विचित्रगमभंगरमणीयाः ॥ २५ ॥ सुव्यक्तमेकचत्वारिंशदनूना भवेयुरधिकाराः । तत्र सतानी च विचारश्रुता अग्र्यवृत्ताश्च ( 2 ) || २६ ॥
389