SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 388 Catalogue of Palm-Leaf Mss. in the तथा हि श्रीदेवमूरिः सुमन समृद्धः समुल्लसत्सत्फलपत्रशाखः । कुतोऽष्यथो आविरभूदमुष्मात् सुरावगीतोपचिपारिजातः ।। ५ ॥ अनेकविकृतिक्रियाकुटिलकर्मरूपामयाऽपहारकरणक्षमः श्रुतिविचारदक्ष. शुचिः । प्रवृद्धकरुणामृतस्समुदपादि धन्वंतरि. श्रिया पदमनागसामजितसरिरर्यः सताम् ॥ ६॥ रुचिरचरणयोगादुर्द्धरैरावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्तिघंटः । प्रकटितसकलागो मोहसैन्याप्रधृष्यो विवुधपतिनिषेव्यः श्रीमदानंदसूरिः ॥७॥ समुन्नत्याधारः स्वरगतलसल्लक्षणधर. श्रुतिश्रेयानंशिर्दधदपरचिह्नानि नितराम् । विनिर्यत्सद्धेतौ सुविषममहावादिसमरे । स्फुरत्तेजोदृप्यत्तरलनयनोऽश्वश्च निरगात् ॥ ८ ॥ श्रीनेमिचन्द्रसूरि. य कर्ता प्रस्तुतप्रकरणस्य । सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ॥ ९ ॥ अन्या च सुखावगमा यः कृतवानुत्तराध्ययनवृत्तिम् । लघुवीरचरितमथ रत्नचूडचरितं च चतुरमतिः ॥ १०॥ शश्वत्पंडितमंडलीकुमुदिनीकाताप्रमोदावहः ।। ___ सर्वज्ञागमदेशनामृतकरैर्निर्वापयन् मेदिनीम् । भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत् स श्रीमानुदियाय यो निजकुलव्योमागणालंकृतिः ॥ ११ ॥ सूरिः श्रीजिनचंद्रश्चन्द्रो नि.शेषजनमनोदयितः । सौम्यत्वकलावित्त्वप्रभृतिगुणाना स्वकुलभवनम् ॥ १२ ॥ तच्छिप्य. प्रथमपदे श्रीपदवानाम्रदेवमूरिरभूत् । अपरोऽपि तत्कनिष्ठ श्रीमान् श्रीचंद्रसूरिरभूत ॥ १३ ॥ इतश्च यो मेदपाटाध्युषितोऽपि धीमान् दयाधनो धार्मिकमध्यवर्ती । सत्साधुताधर्मकृताभिलाषः सुश्रावकत्वं परिपाति सम्यक् ॥ १४ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy