________________
Śäntınāthe Jain Bhandara Cambay
387
सृरिधर्मकथास्वरूपमाख्यानकमणिकोशमेकचत्वारिंशदधिकारसमन्वितं विरचितवान् , तस्य विवरणं प्रस्तूयते । तस्य चादावेव मगलाभिधेयप्रयोजनप्रतिपादिकेय गाथा, ।।
नमिऊण जिणं वीरं सुरमहियं केवलिं पवरवाणि ।
अक्खाणयमणिकोसं भब्वजणविवोहयं वोच्छ । अन्तः --
इदानी गाम्राकार शास्त्रवक्तव्यतामुपसंहरन् गास्त्रगतपठनादिफलं च दिदर्शयिपुरिदमाह
अक्वाणयमणिकोसं एयं जो पढइ कुणइ जहजोग ।
देविंदसाहुमहियं अडरा सो लहड अपवग्ग ॥ व्याख्या । अख्यानकमणिकोशं व्यावर्णिताभिधेयं एतं पूर्वोक्तस्वरूपं 'जो पढइ ' यः पुण्यवान् पठति व्यक्तं कटे धारयति, करोति विधत्ते यथायोगमौचित्याराधनेन । देवेन्द्रसाधुमहितं सुरपतिमुनिपूजितम् , अपवर्गविशेषणमिद । अचिराच्छीघ्रमेव स जीवो लभते प्राप्नोत्यपवर्ग मोक्षमिति गाथाक्षरार्थो भावार्थस्त्वत्रापि गाथाया देवेन्द्रेति साध्ववस्थाया निजनाम विशेषणमध्ये विरचितमिति । कृतिरियं सैद्धांतिकशिरोमणिश्रीमन्नेमिचन्द्रमरेरिनि । आख्यानकमणिकोशवृत्तिः समाप्ता ।
वृत्ति विधाय यदिमा महती मयाऽऽप्त
पुण्यं पवित्रितजगत्त्रयचित्तवृत्ति । तेनाऽऽशु भव्यनिवहो लभता भवाब्धौ
___सद्यानपात्रमिव बधुरबोधिबीजम् ।। छ । ज्ञानादिरत्नवसतिर्जनमान्यलक्ष्मीजन्माग्रभूमिरभितो बहुसत्त्वसेव्यः । निर्धीतकर्ममलनिर्मलधर्मनीर. ओणीभृदाश्रितगरिष्ठगभीरमध्यः ॥ १ ॥ अच्युतप्रवणावासो मर्यादानतिवर्तकः । अस्ति स्वच्छो बृहद्गच्छः श्रीमान्नाथ इवाभसाम् ॥ २ ॥ इति नीरधितुल्यगुणे दयासुधापास्तजन्ममरणे । कचिदतिगायिनि समये शिष्टा निशमयत यज्जातम् ॥ ३ ॥ मुनिविबुधधृतजिनमतमंदरमथिमथ्यमानतन्मध्यात् । म्फूर्जन्महाप्रभावः प्रादुरभूद् रम्यरत्नचयः ॥ ४ ॥