SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 386 Catalogue of Palon-Leaf Mss. in the आदि ॥ ॐ नमः सर्वज्ञाय ॥ म्वाश्रमीतघनभूधरसेव्यमूर्तिविण्यधामबहुधीवरलब्धमध्य । आख्यानकाख्यमणिकोशमहार्घरूपो जीयाद् युगादिजिननायकनीरनाथ. ॥ १ ॥ सिद्धार्थपार्थिववरान्वयलब्धजन्मा निर्मिथ्यवीरवलयान्वितरम्यमूर्तिः । रागादिशत्रुगुरुविक्रमवर्ण्यवर्णो जीयाज्जगत्त्रयजयासमवेश्म वीरः ॥ २ ॥ राकाशशाककरनिर्मलकीर्तिभाजो ज्ञानादिरत्नचयरोहणशैलकल्पा । शेषा अपि प्रणतकल्पितकल्पवृक्षा जीयासुरानतसुरप्रभवो जिनेन्द्राः ॥ ३ ॥ श्रीगौतममुनिमुख्याः श्रुतजलधिविचारपारगतवचस । सुगृहीतनामधेया जयतु गणधारिणः सर्वे ॥ ४ ॥ यस्याः प्रसादमासाद्य सद्यः सजायते पुमान् । पारगामी श्रुताम्भोधे स्तोम्यहं ता सरस्वतीम् ॥ ५ ॥ अस्मादृशा अपि विशिष्टविवेकशून्या येषा प्रसादमधिगम्य मनीषिमान्याः । जाताः परोपकरणप्रकृतिप्रवीणास्तानप्यचित्यमहसः स्वगुरुन् प्रणौमि ॥ ६ ॥ इत्थ कृतनमस्कारो ध्वस्तविघ्नविनायकः । विधाम्ये विधिनाऽऽरब्धं समीहितमह सुखम् ॥ ७ ॥ इहानतजन्मजरामरणप्रवाहपयःपूरपूरिते इष्टवियोगानिष्टसंप्रयोगव्यसनशतकल्लोलमालासमाकुले -हर्पविपादाद्यनेकप्रकारप्राणिपरिणामपरपरारंगत्तरंगे शारीरमानसानेककटुकदु.खदुष्टश्वापद्रसमाकीर्ण भुवनत्रयसतापसंपादनपटिष्ठप्रकृतिप्रज्वलन्मदनवडवानले अनंतभवभ्रमणनिमित्तदुरंतकषायमहापातालकलशालये अनुपलब्धपरपारसंसारपारावारे निमज्जता भव्यजंतुना कर्णधारादिसमग्रसामग्रीकं यानपात्रमिव जलधिजलमध्यपतितरलमिवातिदुर्लभ लब्ध्वा श्रीसर्वज्ञप्रणीतधर्मान्वितं मनुजजन्म परोपकारे यतितव्यम् । स चोपकारो यद्यपि द्रव्यादिभेदभिन्नत्वेनानेकप्रकारस्तथापि ,जिनवचनोपदेशेन भावोपकारेणोपकर्त्तव्यम् । तस्यैकातिकात्यतिकरूपत्वादितरस्य चानैकातिकानात्यतिकस्वरूपत्वात् । जिनवचनोपदेशोऽप्युपदेष्टव्यभेदाटनेकप्रकारोऽतो धर्मकथारूपोपदेशेनैव भव्यानामुपकर्त्तव्यम् । तेषामज्ञातधर्मस्वरूपाणा धर्मतत्त्वप्रकाशनेन तस्य महोपकारित्वात् । अतो भव्यानुपचिकीर्षुः श्रीमन्नेमिचंद्र
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy