________________
385
Sântinātia Jain Bhandāra Cambay
यदिह जगदे किचिन्मोहाद् मया समयावहियदपि सुकविक्षुण्णान्मार्गाद्वचोऽभिदधेऽन्यथा । तदुदितकृपैः सद्भिस्त्यक्त्वा तथैप विशोध्यताम् । भवति कथिकाकोशः पंथा यथा शिवसद्मनः ।। १ ।। यत्कृत्वेदं त्रिकरणजयात् पुण्यमस्माभिराप्तं
तेनैवैतच्छ्रवणपटनाख्यानचिंतकचित्ताः । सत. संतु प्रतिसभमितश्चाप्तमोहव्यपोहा
भूयो भूयो जिनपतिमते बोधिसिद्धिं लभंताम् ॥ २ ॥ जीयासु. शशिनीलकाचनजपामेघोपमागत्विषः
श्रीमन्नाभितनूद्भवप्रभृतयः सर्वेऽपि तीर्थेश्वराः । गीरम्बा च सुदर्शना च विदिता देव्योऽपि काल्यादयो
भूयार्जिनशासनस्य सततं प्रोत्सर्पणाहेतवे ॥ ३ ॥ इति बहुविधवाक्यानेकमाणिक्यपूर्णागमजलनिधिलब्धैरर्थलेशैर्निवद्धः । तदपि निहतभूतिप्राणिदौर्गत्यदुःखो जयतु सततमेष श्रीकथारत्नकोशः
॥छ ॥ ४ ॥ इति प्रव्रज्यार्थचिताया श्रीप्रभप्रभाचंद्रचरितमुक्तं । तदुक्तौ च सम्यक्त्वादिपंचा_गदर्थाधिकारसंबद्ध कथारत्नकोशोऽपि समाप्त. ॥ छ । मंगल महाश्रीः ॥ शुभं भवतु ॥
शिवमस्तु सर्वजगतः परहितनिरता भवतु भूतगणाः ।
दोपा' प्रयातु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ । सं. १२८६ वर्षे श्रावण शुदि २ बुधेऽद्येह प्रल्हादनपुरे कथारत्नकोशपुस्तकमलेखीति भद्रमिति ।। छ ।
No. 233 ākhyānakamanıkośa with Commentary
आख्यानकमणिकोश-सटीक Folios - 483
Extent - Granthas 14000 Language - Prakrit, Sanskrit, Apabhramśa Size - 30 2 x 2.2 inches Author - Nemicandrasūrı
Condition - Good Commentator - Amradevasūri
Date of Compositon of commentary Age of IS -c First half of 13th cent V.S
- II99 v.s.
24