SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 390 Catalogue of Palm-Leaf Mss. in the सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः । रचितेपु शास्त्रविवरणकथाप्रबधेषु सरसेषु ॥ २७ ॥ कीगिदं मत्काव्यं तदापि ग्राह्यं कृतप्रचुरकरणैः । मयि वल्लभमाध्यस्थ्ये माध्यस्थ्यगुणान्वितैः सद्भिः ॥ २८ ॥ छंदोलक्षणविकलं समयोत्तीर्ण च यत् किमपि लिखितम् । तच्छोध्यं विद्वद्भि कृतांजलि. प्रार्थये भवतः ॥ २९ ॥ अन्यच्च नेमिचंद्रा गुणाकराः पार्श्वदेवनामान. । एते त्रयोऽपि गणयो विपश्चितो मुख्यनिजशिप्याः ॥ ३० ॥ साहाय्यं कृतवतो मम लेखनशोधनादिकृत्येषु । आधानोद्धरणे च प्रमादविकला कलाकुशलाः ॥ ३१ ॥ नवत्या युक्तेषु प्रथितयशसो विक्रमनृपा च्छतेषु क्रातेषु त्रिनयनसमानेषु शरदाम् ११९० । अजय्ये सौराज्ये जयति जयसिंहस्य नृपते रियं स्थानीयेऽगाद्धवलकपुरे सिद्धिपदवीम् ।। ३२ ॥ श्रेष्ठियशोनागस्याऽऽरब्धा वसताववस्थितैः सद्धि । वसता सम्यगवसिता वसतावच्छुप्तसत्कायाम् ॥ ३३ ॥ भुवनानीव चतुर्दश धातुर्मम रम्यवर्णपदभाजि । अक्षरगणनाद् ग्रंथो जातोऽनुष्टुप्सहस्राणि ॥ ३४ ॥ मानसगर्भे स्थित्वा लक्षणयुगयं सपादनवमासैः । आक्यानकमणिकोशः सुत इव समपादि सद्वृत्ति ॥ ३५ ॥ यावच्चंद्रश्च सूर्यश्च यावन्मेरुर्महीतलम् । स्वर्गापवर्गवत्तावन्नंद्यादेषाऽपि मत्कृति. ॥ ३६ ॥ ग्रंथानं १४००० ॥छ। इति श्रीमद्रामदेवसूरिविरचितवृत्तावाख्यानकमणिकोशवृत्तिः समाप्तेति ॥ छ ॥ मंगल महाश्रीः ।। छ । शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोपाः प्रयातु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy