SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 351 Sānțınātha Jain Bhandāra Cambay स्तौमि श्रीगौतमादीस्तानेकादश महाकवीन् । यैरपूरि द्वादशागैः समस्या त्रिपदी गुरोः ॥ १३ ॥ शय्यंभवोऽस्तु वो भूत्यै चक्रे, सर्वांगमूर्तिभृत् । येन दुःप्रसभांचार्यकालिकं दशकालिकम् ॥ १४ ॥ श्रीभद्रवाहुर्वः प्रीत्यै सूरिः शौरिरिवास्तु सः । यस्माद्दशानां जन्माऽऽसीनियुक्ती नाम ... ॥ १५ ।। वाक्यैर्विशेषातिशयैर्विश्वसदेहहारिभि । जिनमुद्रं जिनभद्रं किं क्षमाश्रमणं स्तुवे ॥ १६ ॥ उमास्वातेर्वाचकस्य वाचः कस्य न चेतसि । भवनंत्यद्यापि घंटावत्तारटकारसुंदराः ।। १७ ।। उदितोऽर्हन्मतव्योम्नि सिद्धसेनदिवाकरः। चित्रं गोभिः क्षितौ जहू कविराजबुधप्रभा. ॥ १८ ॥ स्तौमि श्रीहरिभद्रं हद्गीमहत्तरा । । चतुर्दगप्रकरणगत्याऽगोप्यत मातृवत् ।। १९ ।। व्योम्नश्च भद्रकीर्तेश्च घेखत्तारागणस्य कः । बहुधामराजमित्राराद्धस्यावेतु वैभवम् ॥ २० ॥ अद्याप्युपमितिग्रंथच्छलाद्यज्जयडिंडिमः । विश्वे ध्वनत्यसौ जीयात् सिद्धर्षिः कविकुंजरः ।। २१ ॥ पालित्तसूरिः स श्रीमान् अपूर्व. श्रुतसागरः । यस्मात्तरंगवत्याख्यकथाश्रोतो विनिर्ययौ ।। २२ ।। मानतुंग-देवभद्रसूरी स्तुत्यौ मरालवत् । ऊपतुर्मानसे यौ श्रीशातवाहन-भोजयोः ॥ २३ ॥ गुरुगूर्जरराजस्य चातुर्विधैकसृष्टिकृत् । त्रिपष्टिनरसद्वृत्तकविर्वाचा न गोचर. ॥ २४ ॥ - गोभिर्दर्शनशुद्धिं योऽकषायस्वादुभिर्व्यधात् । सोऽपूर्वाभ्युदयः श्रीमान्नंद्याच्चन्द्रप्र[भः प्रभुः ] ॥ २५ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy