________________
350
Catalogue of Palm-Leaf Mss. in the
Age of MS. -c Latter half of 13th cent VS. Date of Composition - 1252 V.S. General Remarks - First two folios and last three folios are torn on one side.
आदि:
--
॥ अर्ह ॥ भव्यावुजन्मनां गोभिर्वोधलक्ष्मीप्रदाः सदा । सर्वक्षेत्रेषु युगपज्जिनादित्याः पुनंतु वः ॥ १ ॥
सुखयतु स जिनो यदंसदेशद्वयवसतिः पृथुसंहतिर्जटानाम् । मृगमदलिखितेव पत्रलेखाविरतिव विरेजे ॥ २ ॥
श्रीशांतये नमस्तस्मै राज्यवत् संयमेऽपि यम् । सुवर्णवारिजन्याजादन्वयुर्निधयो नव ॥ ३ ॥
सदानवानंदकरः शंखचक्रांकितक्रमः । देयादिष्टां श्रियं नेमिर्नवीन. पुरुषोत्तमः ॥ ४ ॥ श्रीपार्श्वः स जिनो जीयाद्यस्य दैत्यजयोत्सवे । चित्रं जैत्रं फणच्छत्रं फणींद्रः स्वयमुद्दधे ॥ ५ ॥ अंतर्वैरिवारवीरः स श्रीवीर जिनः श्रिये । यत्सिंहनादः प्रत्यूहव्यूहाद्विल्गु वल्गति ॥ ६ ॥ श्रीसद्म पद्मनाभस्य पादपद्मद्वयं स्तुमः । यद्यावन्नीयते चित्रमिद्वैर्मूर्द्धावतंसताम् ॥ ७ ॥ द्वादशोऽतिद्वादशार्कतेजास्तजासि व. सदा । तन्यादन्यातिशायीति सममोऽध्यममो जिनः ॥ ८ ॥ मुनींद्रवंदनानत्याप्यर्जितात्युन्नतश्रिये । ए, कृते श्रीमदममस्वामिने नमः ॥ ९ ॥ जयति नवकेतकोदरदलावदातद्युतिर्गिरांदेवी । कविहृदयवाद्धिंसंवासलग्नघनफेनपटलेव ॥ १० ॥
...
श्रीजिनालंकृतः शश्वत्सारसारस्वतप्रसूः । जीयागिरींद्रैरक्षोभ्यो नवः सिद्धांतवारिधिः ॥ ११ ॥
श्रीगुरुभ्योनमस्तेभ्यो येभ्यो विद्याश्चतुर्दश ।
अमंदरागैर्म
प्यंते रत्नवत् सदा ॥ १२