________________
352
अन्तः
Catalogue of Palm-Leaf Mss. in the
चैत्रवद् धनपालो न कस्य राजप्रियः प्रियः । सत्कर्णाभरणी यस्माज्जज्ञे तिलकमंजरी ॥ २६ ॥ जयंतु सूरयोऽन्येऽपि येषां वाग्ब्रह्मवैभवम् । ग्रंथसृष्टौ महाकाव्यसर्गेषु च नवं नवम् ॥ २७ ॥ वंद्यास्ते रामवत् संतो यैर्व्यस्तपरदूषणैः । क्रियते विबुधै. सेव्या निष्कलंका कृतिः कवेः ॥ २८ ॥ नरोत्तमः स बैकुंठः । रातिश्च शंकरः ।
धाता पद्मासनस्तत्स्मात् समानः केन सज्जनः ॥ २९ ॥
वृत्तरम्येण पीयूषवर्षिणा सत्कलावता । नेंदुनाऽपि समः साधुः कालकूटसजन्मना ॥ ३० ॥
अनेकस्य भद्रस्य गर्जतश्च स्थिरैः पदै. । साधोः कुर्यात् सुवंशस्य किं श्वेव पिशुनो भषन् ॥ ३१ ॥
ख्यातस्याममसंज्ञया जिनभवे कृष्णस्य तद्वप्तुर
प्येतन्मूलहरेः कुलस्य च कथां ग्रंथस्य लक्षण याम् । ग्रथ्नाति स्म स भद्रबाहुगणभृन्माति स्म साब्धः समा
यन्नावीव कृतौ ममेह महिमा श्रीपार्श्वनाथस्य सः ॥ ३८ ॥
उत्प्रेखन्नखरत्नदीपमसितप्रौढाशुदूर्वांकुरं
नम्राखंडलमौलिमौक्तिकरुचि श्रीखंड पिंडस्थिति ।
श्रीर्नीराजनभाजनं क्रमयुगं चचत्कटाक्षाऽक्षतं
श्रीपार्श्वस्य दधत्यनर्गलमले पुष्णातु वो मंगलम् || ३९ ॥
अममचरिते भाविन्येवं तयोः सहजन्मनो -
र्जिननृपतया षष्ठो भावी भवः शिवशर्मवान् ।
तदनुचरयो. सीरिश्रीशार्ङ्गिणो
-मवः
किमपि कथितः स्वाहा श्रोत्रद्वयाय मया सताम् ॥ ४४ ॥ इत्याचार्य श्री मुनिरत्नविरचिते महाकाव्ये श्रीअम मस्वामिचरिते भाविश्री अममस्वामिसंघादिसंख्यानिर्वाण महोत्सवतद्रातृचलदेवजीवनिर्वाणतत्समयमा वि विष्णु बलदेवस्वरूपवर्णनो