________________
Santinatha Jain Bhandara Cambay
तदाम्नायजुषां युष्मादृशानामपि युज्यताम् । सहथकरणे स्फीतपरोपकरणे मतिः ॥ ३१ ॥ माणिक्यचंद्राचार्येण तस्येति प्रार्थनावशात् । श्री पार्श्वनाथचरितं वाचा पथि विपंचितम् || ३२ ॥ गगनवसनमाशायंत्रगं शीतरोचिः सितकृमिजगुलुंछाढात्तरुक्तंतुजालैः । 'विरचयति विरिंचिर्यावदुल्लासिताराकुसुमकमिह शास्त्रं नंदतात्तावदेतत् ॥ ३३ ॥ तमो विघटयन्नलिप्रतिममम्बरारामतः सदा दिनमुखे निशाविकसदृक्षपुष्पोत्करम् । करैः किरणमालिकश्चुटति यावदुल्लासिभिर्मतं जिनपतेर्मतं जयतु तावदेत् क्षितौ ॥ ३४ ॥
श्रीसंघेन मयि क्रमावुजरजःकल्पे पयः कल्पया
दृष्ट्यावाप इव प्रसादविटपी न्यस्त. परं पुष्यताम् ।
यस्माद्विश्वजनानुरागमहिमश्रीर्मजरीसद्यश.
IT
पुप्पोल्लासि परोपकारकरणैश्वर्य फल चाप्यते ॥ ३५ ॥
रसर्षिरवि १२७६ संख्यायां समाया दीपपर्वणि ।
ウ
347
समर्थितमिदं बेलाकूले श्रीवटकूपके ॥ ३६ ॥ छ ॥ ग्रन्थानं ५२७८ ॥
अष्टसप्तत्यधिकशतद्वयेोपतपचसहस्रा ॥ छ ॥ मंगलमस्तु लेखकपाठकयोः ॥ छ ॥ ॥ ॐ नमः श्रीपार्श्वनाथाय ||
यत्राऽनेकधा अनेककवयो धिष्ण्यानि भूयांस्यलं चन्द्रस्योपचयः कलंकविकलः सजायते सर्वदा ।
वक्रः कोऽपि न दृश्यते न च गुरुर्मित्रोदये निष्प्रभ.
पल्लीपालजनान्वयो नवनभोलक्ष्मीं दधानोऽस्ति स ॥ १ ॥ तत्रोल्लासितलोक भूरिकमलः लिप्यत्प्रतापाकृती
राज्ञो मंडलवृद्धिकारणतया प्रीतिं समुत्पादयन् ।' दोषातिक्रमजातकान्तिसुभगो विभ्रवृत्ता तनुं
मार्चंडो जसहूर्धनी समभवन्नंदाणि पूर्मंडनम् ॥ २ ॥ तद्भार्या योषितां वर्या परिचर्या परायणा । जिनेशचरणद्वन्द्वे शोभना शोभनाऽजनि ॥ ३ ॥