SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 346 Catalogue of Palm-Leaf Mss. in the संदेहोल्वणशौल्किकैः प्रतिपदं वाधामनासादिता . __ ग्रन्थालीपथकान्तराणि परितः स्पष्टं समुल्लंघते ॥ २० ॥ गुरुप्रसादविगलज्जडिमैकतमस्तमः । सूरिर्माणिक्यचंद्रोऽभूत्तत्पादाब्जमधुव्रतः ॥ २१ ॥ वंशः सत्त्वगुरुस्थितिः समहिमा सद्धर्मकर्मोदया। _____दस्ति स्वस्तिनिबंधनं मतिमता श्रीभिल्लमालाहयः । आमूलं भुवनाद्भुतैकगुणभू : श्रीमहिलस्यागजो वीरस्तत्र पवित्रवृत्तसदनं मुक्ताफलश्रीरभूत् ।। २२ ॥ विमलमतिमृणालिनीमरालः सकलकलाकमलावलीविवस्वान् । निरुपममहिमाहिमावनीभृत् समजनि सूनुरमुप्य वर्द्धमानः ॥ २३ ॥ कुमारपालक्ष्मापालाजयपालमहीमुजोः । यः सभाभूपणं चित्रं जैनं मतमरोचयत् ।। २४ ।। त्रिभुवनपाला श्रीमान् मल्हः सच्चक्रनंदक. । प्रियसत्यः श्रीदेहड इत्याख्याः पुरुषोत्तमा. ॥ २५ ॥ सतीसीमंतमाणिक्यश्रीमाकुक्षिसंभवा. । सच्चरित्रास्त्रय. पुत्रास्तस्य शस्यधियोऽभवन् ॥ २६ ॥ प्रज्ञावता सत्कविपुगवेन श्रीपल्हणेनाऽऽत्मसुतेन साकम् । माणिक्यसरि गुरुमन्यदेति श्रीदेहडोऽजल्पदनल्पभक्तिः ॥ २६ ॥ नीरागतानिधी राजगच्छभूर्गुणवारिधिः । सूरिः प्रद्युम्नसूर्याख्यः पूर्व वः पूर्वजोऽभवत् ॥ २७ ॥ सपादलक्षगोपालत्रिभुवनगिर्यादिदेशगोपालान् । यश्चतुरधिकागीत्या वादजयै रंजयामास ॥ २८ ॥ श्रीअभयदेवसूरिस्तच्छिज्यस्तर्कभूरभूत् । भग्नासनालितुमुलाद् गीर्यदास्यमशिश्रियत् ॥ २९ ॥ जडोल्लासेन सन्मार्गभेदिनी दृक्तरंगिणी । रोर्बु चकार स नवं ग्रंथं वादमहार्णवम् ॥ ३० ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy